SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ न त्वलीको मणिरित्यलं प्रसङ्गेन । तदेवं विविधोपपत्तिभिर्मङ्गलं कर्तव्यताकत्वेन व्यवस्थाप्येदानीं नाना व्युत्पत्तिभिर्मङ्गलशब्दस्य निरूपणं करोति शास्त्रकारः -- (१) मगि-र्गत्यर्थो धातुः । तथा च मङ्गयतेऽधिगम्यते साध्यते यतो हितमनेनेति मङ्गलम्- अलच्प्रत्ययान्तं भवति । Y (२) अथवा मङ्ग इति धर्मशब्दार्थः । ततश्च मङ्गं धर्मं लाति समादत्ते इति मङ्गलम्। (३) अथवा निपातनादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मकि मण्डने इति) धातोः मक्यते-अलङ्क्रियते शास्त्रमनेनेति मङ्गलम् । मन ज्ञाने इति धातो: मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेनेति मङ्गलम् । मुद मोद-स्वप्न-गतिषु y इति धातो: मदी हर्षे इति धातोश्च मोदन्ते-माद्यन्ति-हष्यन्ति-शेरते-विघ्नाभावेन 0 निष्पकम्पतया सुप्ता इव जायन्ते शास्त्रस्य च पारं गच्छन्त्यनेनेति मङ्गलम् । मह पूजायामिति धातोः मह्यन्ते-पूज्यन्तेऽनेनेति मङ्गलम् । (४) अथवा निरुक्तादपि मङ्गलशब्दसिद्धिर्भवति । यथा - मां गालयति भवादिति मङ्गलम् । संसारादपनयतीत्यर्थः । शास्त्रस्य मा भद गलो - विघ्नोऽस्मादिति गलो-नाशो वाऽस्मिन् सतीति मङ्गलम् । सम्यग्दर्शनादिमोक्षमार्गलयनाद् वा मङ्गलमिति । सर्वस्याऽपि वस्तुनस्तत्त्व-पर्याय-भेदैर्व्याख्या भवति । तत्त्वं नाम ) शब्दार्थरूपम् । तत्तु निर्णीतमेव । पर्यायास्तु मङ्गलस्य शुभं, शान्ति, विघ्नविद्रावणमित्यादयः स्फुटा एव । भेदाश्च नामादयश्चतुर्धा भवन्ति । तथाहि - . नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलं चेति । तत्र तावन्नामङ्गलं विवरीषुराचार्यः प्रथमं नामस्वरूपमाह नाम द्विधा भवति । तथाहि - (१) पर्यायैरनभिधेयमन्यार्थेऽन्वर्थे वा 0 स्थितं, तदर्थनिरपेक्षं चेत्येकम् । (२) यादृच्छिकं च द्वितीयम् । ____ तत्र पर्यायानभिधेयं नाम यदा यस्य कस्यचिदिन्द्रादि नामधेयं क्रियते तदान स विवक्षितपुरुष इन्द्रस्यैवाऽन्यैः पर्यायैर्हरि-मघव-बिडोजोमुख्यै वाऽभिधीयेत । तथा तदेव इन्द्रादिनाम ततो विवक्षितपुरुषादन्यस्मिन् देवाधिपत्याद्येऽर्थे सद्भूततया वर्तेत, अथवा, सद्भूततया तदिन्द्रादिनाम (अनुगतः सम्बद्धः परमैश्वर्याद्यर्थो यस्मिन् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy