________________
विश्वज्योतिः स्वलोचने उन्मिमेल, एकं पत्रकं तत्करे निदधौ, यद् विनतेन - मयूरेणाऽङ्गीकृतम् । पुनश्च पृष्टम् - 'भगिनि, अपि त्वं मां क्षमिष्यति ?'
विश्वज्योतिरुन्मीलिताभ्यां लोचनाभ्यां गगनमनुददर्श । तदानीं ताभ्यामेकं - दिव्यं ज्योतिः निःसरति स्म, सा तद्वदेव पश्यन्ती बभूव । मयूर उत्तस्थौ, सोऽश्रूणि
प्रमार्जयन् पत्रकं पपाठ। तत्र लिखितमासीत् - 'शादं विहाय कोऽपि मम समाधिस्थलं न परिदधातु, हि तृणान्येव केवलमस्माकं दीनानां समाधिस्थानामाच्छादनानि भवन्ति ।'
TTTTTTTTTTTTTTTTTY
शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा परेषां संसर्गान खलु गुण-दोषौ प्रभवतः । अपांपत्युर्मध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् ।।
(नलविलासनाटके)
६९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org