________________
पूज्यजनैविशेषतोऽनुशासनाग्रह आसेव्यते । २- ते पूज्यजना बालकस्य शक्तितोTO ऽधिकमपेक्षन्ते, तदपेक्षाभङ्गे बालकस्योपेक्षा तिरस्कारो वा क्रियते तैः । ३- एतेषां 6 98 पूज्यजनानामनुचितवर्तनम् ।
बन्धो ! यस्य कस्यचिदपि जनस्य विकासेऽनुशासनमावश्यकमस्ति, किन्तु 26 तत्राऽपि विवेकोऽत्यावश्यकोऽस्ति । यथाऽधिकमौषधासेवनं हानिकारकं भवति 8 तथैव विशेषोऽनुशासनाग्रहोऽपि बालकस्य विकासेऽवरोधको हानिरूपश्च भवति । 9 26 अतोऽवसरानुरूपं विवेकपूतमनुशासनमेवाऽत्र प्रशंसनीयमादरणीयं चाऽस्ति ।
तदनुशासनं त्रिधा भवतिप्रेम्णाऽनुशासनं प्रलोभनं दत्त्वाऽनुशासनं भयमुत्पाद्यऽनुशासनं चेति ।
प्रेम्णाऽनुशासनम् - प्रवृत्तौ वार्तालापे चेति सर्वव्यवहारेषु वात्सल्यस्य 2 प्रेम्णश्च प्राधान्यं भवेत् । यदि कदाचित् स्खलना स्यात्तदा प्रेम्णा बोधनं भवेत् । एवंकरणेन लाभो हानिर्वा स्यात्, इत्यादिमृदुवाक्यैः प्रेर्यते । यथापुत्र ! अध्ययनं विना सर्वमपि निरर्थकमस्ति, अतोऽस्मिन् काले पठनमत्यावश्यकमस्ति । प्रलोभनं दत्त्वाऽनुशासनम् - यदि त्वं परीक्षायामुत्तीर्णो स्यास्तदा तुभ्यं ? द्विचक्रिकां दास्यामि प्रवासं नेष्यामि चेति प्रलोभनं दत्त्वाऽनुशासनं करोति । भयमुत्पाद्यऽनुशासनम् - यद्येवं न करिष्यसि न वदिष्यसि च तर्हि वेतनं .. न दास्यामि, एतत्स्थानाद् निष्कासयिष्यामि चेति भयद्वारेणाऽनुशासनं करोति।।
___एतेषु त्रिविधेष्वनुशासनेष्वपि प्रतिनियतनियमानां नीतेश्च पालनमस्त्येव, SX किन्तु प्रेम्णाऽनुशासने सहजताऽस्ति, अन्यत्र कृत्रिमताऽस्ति । ततः प्रेम्णाऽनुशासनेन
बालकस्स्वयं विवेकी स्वकर्तव्यं प्रति जागृतश्च भवति । एतादृशो बालको जीवने आपतितायां विषमपरिस्थितावपि न कदाचिदपि व्याकुलोऽस्वस्थश्च भवति, न च काठिन्यमनुभवति । एतादृशो जनः किञ्चित्कर्तुं प्रवृत्तस्स्यात्तदा सर्वाणि कार्याणि स्वत एव भवन्ति, अर्थात् सर्वं सन्मुखमेवाऽऽगच्छति । प्रेम्णाऽनुशासनेन लब्धो बोधो यावज्जीवनं तिष्ठति, किन्तु द्वाभ्यामवशिष्टानुशासनाभ्यां प्राप्तो बोधोऽल्पकालमेव Xs तिष्ठति, तत्पश्चादनुशासनशून्यो जीवो निर्मर्यादो विवेकविहीनश्च भवति, स च न
केवलं स्वकीयगृहस्य कृते, अपि तु समाजस्य कृते भाररूपो हानिकारकश्च भवति । 926 अतीव दमनस्य प्रतिक्रिया तीव्रा भवति । अत एव प्रेम्णाऽनुशासनमेवाऽऽदरणीयं 6
Jain Education International
३३ For Private & Personal Use Only
www.jainelibrary.org