SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ oXeroMOM कश्चिदसाध्यरोग आसीत् ? अन्यत् कारणं वा इत्यहं पृच्छामि । Fx महिला अये भद्र ! मृत्योरपि किमपि कारणं भवति ? अवसरे समुपस्थिते । एव सर्वोऽपि म्रियते । सोमः युक्तमाह भवती । कुतस्समागताऽसि ? महिला राजस्थानेऽलवरनाम नगरं श्रुतं न वा ? तत एवाऽऽगताऽस्मि । सोमः किं तव सहयायिनो न वर्तन्ते ? सम्मर्दादन्यतमः भोः किमेवं निरर्थकं पृच्छसि ? पत्युर्मरणात्स्फुटितहृदयां वराकी पर महिलां समधिकतरं क्लेशयसि ! यदि दातुमिच्छसि किञ्चित् तर्हि । दत्त्वा स्वमार्गमवलम्बस्व । ॐ सोमः बन्धो ! कथमेवं दुर्मनायसे ? अहं प्रयोजनवशादेव सञ्चिनोमि ॐ समाचारसूत्राणि । पश्य, महिलेयं महाजनगृहोत्पन्ना प्रतीयते वेषभूषाभिरलङ्करणैश्च । नेयं यायावरभिक्षुकी ! अहमस्मि नगरनिगमस्याऽधिकारी । अत एवाऽस्य परिचयसूत्रं विज्ञाय नगरनिगमपक्षतोऽस्य दाहसंस्कारप्रबन्धं कारयिष्यामि । ६२ सम्मादपरः साधु साधु ! साधु चिन्तितं भवता । * सोमः भो ! इदमस्माकं कर्तव्यम् । राजस्थानादागतोऽयं जनो निश्चप्रच- ** मस्माकमतिथिरेव । स यदि दुर्भाग्यवशादिहैव पञ्चत्वं गतस्तहि से अस्माभिरेवाऽस्या महिलायाः सहायैर्भवितव्यम् । (महिला प्रति) तद् भगिनि ! अलं चिन्तया । सोऽहं साहाय्यं करिष्ये । नाऽसि र त्वमेकाकिनी। किं तव पत्यु म ? महिला (वार्तालापं श्रुत्वा भीतभीता सती, आत्मगतम्) हा धातः ! (किमिदानीं भविष्यति ? नित्यसफलेयं धनार्जनयोजनाऽद्य विफलायते । पति मृतमुद्घोष्य, अमृताञ्जनमहिम्नाऽ श्रूणि च निपात्य भूल प्रायेणाऽर्धहोरायामेव पञ्चाशद्रूप्यकाणि प्रसह्य स्वायत्तीकरोमि । ६ यद्ययमधिकारी समधिकपृच्छां विधास्यति तर्हि सकलमपि षड्यन्त्रमुद्घाटितं स्यात् । तदेवं कथयिष्यामि) (प्रकाशम्) GKOMXNXGXDXNXGXXNXGXOXNXXHDKA X MLO XeKOK MeMOKSxe. ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy