________________
xekKoxeKKR
NAKoxehKxeek
XOXKR
Heag
क्रीतानन्दम् प्रातःकाले दशवादने महानगरशृङ्गाटके विशालजनसम्मर्दोऽवलोक्यते । कार्यालयं जिगमिषवः प्रायः सर्वेऽपि जनास्तत्रैव पुञ्जीभूताः ।। सोमः (सोत्कण्ठम्)
भ्रातः किं जातम् ! किमर्थमियान् सम्मर्दः ? मङ्गलः (सोद्वेगम्)
कश्चिन्मृतः । तत्पत्नी करुणं विलपति, तदन्त्येष्टिं सम्पादयितुं
साहाय्यशुल्कं च प्रयाचते । सोमः कुतस्त्य आसीदयं जनः ? किञ्चिज् ज्ञातं न वा? हिन्दुरस्ति मुस्लिमो
वा? है मङ्गलः (विहस्य)
बन्धो ! सर्वमहमेव भणिष्यामि चेत्त्वदर्थं किमवशेक्ष्यति ? गच्छ तावत् । निर्भरं ज्ञातुं यतस्व । (इति शनैः प्रतिष्ठते) हुँ : विक्षिप्तोऽयं प्रतिभाति । मुखोद्धाटनेऽपि कष्टमनुभवति । यदा स्वयं क्वचिन्निर्जने मरिष्यति तदा ज्ञास्यति । (आत्मगतम्) विक्षिप्तोऽहमपि यदेवं भणामि । अरे यदि मरिष्यत्येव तदा किं ज्ञास्यति ! मृते सति कोऽवकाशो ज्ञानस्याऽनुभवस्य वा ? (इति मन्दं हसति) भवतु, स्वयमेव गत्वा पश्यामि किं घटितमत्र ?
(सम्मर्दमतिकाम्यन् घटनास्थलमुपैति । विलपन्तीं महिला पश्यति) महिला (क्रन्दन्ती)
आह रे दैव ! सम्प्रति क्व यामि ? कं साहाय्यं याचे । हा नाथ !
मामेकाकिनी विहाय क्व प्रद्रुतोऽसि ? ५१ सोमः भोः कथमयं मृतः ?
(इति पृष्ट्वैव स्वमूर्खतामनुभवन्)
सोमः
MOOK
9.Kin
HOMOK
MEROK
-
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org