SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ D. किं मयूर ! त्वयि कापि दया न वर्तते ?' D. मयूरेणोदितम् - 'दया कथं न राजसुते ! विश्वरक्षको यथा तव भ्राताऽभूत्, तथैवाऽहमपि तु भ्रातैवाऽभूवं, तर्हि कथं पक्षपात: ?' K- विश्वज्योतिः 'स तु पितुः नृपासनं नैवाऽपहर्तुमियेष, तस्याऽऽदेशेन शासनस्य - कार्य सम्पादयामास ।' मयूरः 'तहि किमहं तत्कार्यं कर्तुं न शक्नोमि ? आम् , अलं विवादेन । राजसुता प्रासादं यातु ।' K विश्वज्योतिः कातरदृष्ट्या मूच्छितं वृद्धं पितरं पश्यन्ती राजसुतावेदिते मार्गे जगाम । (३) यमुनातटे एकस्मिन् प्रासादे विश्वेशः पर्यङ्के निषण्णोऽस्ति, विश्वज्योतिश्च । - तच्छिरोधाने उपविष्टा । "त्वं कुत्र वस्तुं वाञ्छसि' इति मयूरेण यदा पृष्टा, तदा तया केवलं हतभाग्येन वृद्धेन च स्वपित्रा सार्धं वासः स्वीकृत, इदानीञ्च सा साधारणदासीवेशे । स्वजीवनं हतभाग्यस्य पितुः सपर्यायां यापयति । साम्प्रतं तच्छरीरे तानि भासुराणि राजकीयानि नृत्यवस्त्राणि न दृश्यन्ते, केवलं श्वेतवस्त्राण्येव प्रशान्तस्य तस्य मुखस्य शोभां वर्धयन्ति । तं राजप्रासादं न D परित एका शान्तिर्दृश्यते । विश्वज्योतिर्यत् किमपि वस्तु तस्या अभूत्, तत्सर्वं । दीनेभ्यः प्रददौ, बहुमूल्यान् च स्वालङ्कारानपि सा न परिदधौ । इदानीं सैका तपस्विन्यृषिकन्येव बभूव । क्षणे क्षणे सा दासी ऽधिक्षिपति । तस्या आवासे केवलमावश्यकवस्तूनि विहाय किमपि चाऽन्यद् नाऽऽसीत् ।। वृद्धो विश्वेशो निषण्ण एव नेत्रे उन्मील्य जगाद्- 'वत्से ! इदानीं किमप्यौषधं नाऽपेक्ष्यते, औषधं चेश्वरस्मृतिरेव । साम्प्रतं त्वयैतदर्थं न प्रयतितव्यम् ।' - विश्वज्योती रुदित्वोवाद - 'यावच्छरीरमस्ति, तावत्तद्रक्षणीयम् ।' __ विश्वेशः किमप्यनुक्त्वा तूष्णीं निषसाद । किञ्चित् कालं यावद् विश्वज्योतिः । । तस्थौ; तत उत्तस्थौ, औषधस्य काचकूपीश्च यमुनाजले प्रचिक्षेप । ___ किञ्चित् कालपर्यन्तं सा तत्रैव सीदन्ती यमुनाया मन्दं प्रवाहं पश्यति । सा र ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy