SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ यदा जागृतो भवति तदा मनसः स्वभावश्चाञ्चल्यं तु सहजमेव विलीनं भवति । कर्मवैचित्र्यचिन्तनं ह्यत्राऽऽत्मस्वभावजागरणोपायत्वेन दर्शितमस्ति । तेनैव च माध्यस्थ्यं प्रादुर्भवति चित्ते । रोषो वा तोषो वाऽस्माकमभिप्रायोऽस्ति । स च परिवर्तनशीलः । 'कदाचित् कुत्रचिद् वयं तुष्टा अप्यन्यदा तत्रैव रुष्टा अपि भवाम एव । न हि सुखं विद्यते एतादृशे चाञ्चल्ये । सुखं तु सत्त्वे प्रतिष्ठितमस्ति । रोष-तोषादिभावानां वशवर्तित्वेन वयं स्वाधीनं चिरस्थायिनमपि सुखं, नाशयामः । नानाविधाः प्रवाहा भवन्ति जलधिनद्यादीनाम् । किन्तु यस्तितीर्षुः स न सर्वदा प्रवाहानुरूपं तरति किन्तु स्वाभिप्रेतदिश्येव तरति । जलस्य प्रवाहः परिवर्ततेऽपि न किन्तु तितीर्षोर्दिक् । एवं संसारोऽपि भिन्नभिन्नलोकानां भिन्नभिन्नचेष्टितप्रवाहैः सम्भृतोऽस्ति । यो नाम स्वाभिप्रेतलक्ष्यं परित्यज्याऽत्र तत्र सर्वत्राऽवधानं दद्यात् स कथं नाम सुखं प्राप्नुयात् ? Jain Education International अत्र तु स्वसम्बद्धविषयेऽपि माध्यस्थ्यावलम्बनमपेक्षितं तत्र परसम्बद्धेऽपि विषये यदि वयं माध्यस्थमवलम्बितुं न शक्नुयाम तदा स्वसम्बद्धविषयस्य तु का वार्ता ? स्वप्नेन्द्रजालादिषु यद्वदासै रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तै- रेवं विभाव्याऽऽत्मलयेऽवधेहि ॥२७॥ (अध्यात्मकल्पद्रुमे प्रथमे समताधिकारे) अतं आत्मलये एव प्रवर्तितव्यम् । अन्यत्राऽप्युक्तम् 'स्वानन्दे रमते बुध:' इति । माध्यस्थ्यमेव वस्तुतः स्वानन्दः । प्रथमं तावत् स्वेनाऽसम्बद्धे विषये माध्यस्थ्यमभ्यसनीयम् । पश्चादेव स्वसम्बद्धे विषये तत् प्रादुर्भवति स्थिरीभवति च । तदेव चाऽत्र सुखम् । किन्तूपायस्त्वेक एव - कर्मवैचित्र्यचिन्तनम् । तेनैवैतच्छक्यम् । विद्वानेवैतत्कर्तुं शक्नोति । स तु सर्वं पश्यति किन्तु निर्लेपं पश्यति । निर्लेपं नाम न मूढतामुपसृत्याऽपि तु विवेकमवलम्ब्य पश्यति । चिन्तनं विचारो वोभयमपि मूढतां विवेकं च जनयति । चिन्तनेन ये रोषतोषादिभावा जायन्ते सा मूढता यच्च माध्यस्थ्यं जायते स विवेक: । अतश्चिन्तनं विचारो वाऽस्मान् कुत्र नयतीत्यत्र जागरूकेन भवितव्यम् । 'माध्यस्थ्यं विवेक एव वाऽवलम्बनीयः । न कस्यचित् चेष्टिते किञ्चिन्मात्रमपि परिवर्तनं शक्यम् । २८ For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy