SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ न बहुशश्चित्ते प्रश्नः समुदेति यदेतादृशो बुधरूपेण विद्वद्रूपेण च ख्यातोऽपि जनः सम्माननीयोऽपि जनोऽयं किमर्थमेवमेवाऽऽचरति ?' एवं च शनैः शनैर्द्वषो । दुर्भावो वा तं प्रति समुद्भवति चित्ते । स च गच्छता कालेन 'हीनोऽय'मितिरूपेण मनसि प्रतिष्ठितो भवति । किन्तु नाऽयं योग्यः पन्थाः । कलिकालसर्वज्ञ- पर 'श्रीहेमचन्द्रसूरीश्वराणां शिष्येण श्रीरामचन्द्रसूरीश्वरेण निर्मिते नलविलासनाटके , निरूपणमेकमस्ति । नलः स्वकीयां द्यूतासक्ति रोद्धमसमर्थो वृद्धजनैर्वारितोऽपि कूबरेण सह दीव्यति । देववशाच्चाऽजय्योऽपि नलः स्वकीयं सर्वस्वं हारयति । " तदा तस्य वयस्योऽत्यन्तं खिन्नो दुःखितश्च भवति । 'किमनेनाऽऽचरितम् ?' - इति खिन्नोऽपि स यच्चिन्तयति तदद्भुतमादरणीयं च - "किं नु पुरोहितप्रभृतिपौरलोकः शोकाकुलो द्यूतकर्मनिवारणाय प्रवृत्तः सकलराज्यदमयन्तीपणेन दीव्यता देवेन समवधीरितस्तदपि न सतां चेतश्चमत्कारकारि । यतः तावन्मतिः स्फुरति नीतिपथाध्वनीना तावत् परोक्तमपि पथ्यतया विभाति । यावत् पुराकृतकर्म न सर्वपर्व प्रत्यूहकारि परिपाकमुपैति जन्तोः ।।" सर्वथा विधिरेवाऽत्र कर्मण्यलङ्कर्मीणतामगतम् । खलु कृत्वाऽतीतशोचनम्" / इति ? अद्भुतं माध्यस्थ्यं निरूपयत्येष श्लोकः । अपि च 'येन जनेन यथा । भवितव्यं, तद् भवता दुर्वारं रे' - इत्यपि किं न सत्यम् ? अथवा सत्यं त्वेतदेव नाऽन्यद् । अत्र प्रश्नमुद्भाव्य माध्यस्थ्यमुपदिष्टमस्ति यद् - यदि सुखमभिलषितं की स्यात्तदा मध्यस्थेनैव भवितव्यम् । एषैव सुखोपायोऽस्मिन् संसारे, नाऽन्यः । यतो मनसि समुद्गता रागद्वेषादिभावा यदा कार्यरता भवन्ति तदैव गृहक्लेशाः पर सामाजिकसङ्कलेशाश्च समुद्भवन्ति । तत एव च युद्धमातङ्कवादोऽपि च प्रवर्तते । । अतो बहु विचारणीयमेतद् । यः कर्मणः सत्यं जानाति सम्यक्तया च विचारयति AS तस्य स्थिरमनसो मध्यस्थस्य च जनस्य चित्ते कथं नाम क्लेशः समुद्भवेत् ? Hel उक्तमपि __ "निष्फलया कि परजनतप्त्या, कुरुषे निजसुखलोपं रे ?" अङ्गीकरणीयमेतदस्माभिः सुखेप्सुभिर्यथाशीघ्रं येन सर्वेऽपि सुखिनः स्याम। २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy