SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ एवेति नामादयस्त्रयोऽपि भावविशेषा एव । अतो भावस्य वस्तुत्वसाधनं भवतः सिद्धसाधनमेव । ___यदि विशिष्टार्थक्रियासाधकत्वेन भावो वस्तु-इति भवतां मतं तदाऽपि नाऽस्माकं काऽपि क्षतिः । यतो यदि भावेन्द्रादिरूपो भाव एवाऽर्थक्रियासाधकस्तदा नामेन्द्रादिपर्याया अपि तत्साधका एव । द्रव्यत्वेन सर्वेषामपि पर्यायाणां परस्परमभिन्नत्वात् । एवं च चत्वारोऽपि नामादयो वस्त्वेव । अथवा नाम स्थापना द्रव्यं चेति त्रयोऽपि भावस्य कारणत्वाद भावस्यैवाऽङ्गभूता भाववद् वस्त्वेव । अथवा सामान्यतस्तु प्रत्येकं वस्तुनि चतुर्णामपि समकालं विद्यमानत्वाच्चत्वारोऽपि वस्त्वेव । यथा- वस्तुनो यदाभिधानं तन्नाम, तस्याऽऽकारस्तु V स्थापना, तत्कारणं च द्रव्यं, कार्यतापन्नं च तदेव भावः । अतो भाव एव वस्तु, नामादयस्त्रयस्तु भावार्थशून्या एवेति भवत्कथनं नैव युक्तम् । अत्र च मङ्गलवादे नयानाश्रित्य बहु वक्तव्यं, परं विस्तरभयान्नोच्यते इति। kakkoregaonkakkar २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy