________________
RO शक्तितोऽधिकमपेक्षन्ते, तद्भङ्गे तिरस्कारं कुर्वन्ति । सर्वेष्वपि कार्येष्वन्येन बालकेन
8) सह तुलनां विधाय स्वबालकायोपालम्भदानं, कोपकरणं, तिरस्करणं च-'स्वहस्तेनैव ) 9 बालकस्य शिरच्छेदम्' इति ज्ञेयम् । यतो निरन्तरं बालक उपेक्ष्यते तदा
र तन्मनस्तीव्राघातमनुभवेत्, पितरौ प्रत्यरुचिः प्रादुर्भवेत् तथा पित्रेऽहं न रोचे, इति । TOS दुर्भावस्सञ्जायेत । ‘एवमहं किमपि न जानामि, न किमपि कर्तुं समर्थश्चे'ति 100 9 लघुताग्रन्थिनाऽपि बद्धो भवति । एषा ग्रन्थिर्बालकं हतवीर्यं हताशं च करोति, <s
चित्ते भयमुत्पादयति येन स किमपि कर्तुं नोत्सहते । ततस्स निरन्तरं दुःखमुद्वेगं - Pay चाऽनुभवति । गच्छता कालेन स नितरां पराधीनो भवति, कदाचित्त्वात्मघातमपि X8 करोति । अतो यावज्जीवनं बालकस्य हितमाकाक्षिभिर्येष्ठजनैरन्येन सह तुलना X
न कदाऽपि करणीया । यदि कदाचित् क्रियते तदाऽपि नोपालम्भः, उपेक्षा Ya तिरस्कारश्च कार्यः, केवलमुत्साहवर्धनाय प्रेरणाय चैव तुलना करणीया । 36 बन्धो ! 'तोत्तो चान' नामैकं पुस्तकमस्ति । तस्मिन् जापानदेशीयैकस्या
9. बालिकाया आत्मकथाऽस्ति । सा बालिका बाल्यकालेऽतीव चञ्चला क्रीडारता ! Pal चाऽऽसीत् । प्रातिवेश्मिकानां सर्वेषामपि गृहं गत्वा सर्वाणि वस्तूनीतस्ततः क्षिपति ? a> स्म त्रोटयति स्म च । शालायामप्येवमेव करोति स्म सा । ततः सर्वेऽपि प्रातिवेश्मिका 6
शिक्षकाश्च त्रस्ता अभूवन् । तथाऽपि तस्या जननी न किमपि तस्यै अकथयद । TV अक्रुध्यच्च । एवं न करणीयं, एवं न वदेयमित्थं बहिर्न गमनीयमित्युक्तवती न । > त्वमुद्धताऽसि, तव कारणतोऽन्ये जना मह्यं कुध्यन्ति, इत्युपालम्भो न दत्तो न वा 946
तिरस्कतोपेक्षिता । न च कदाऽपि प्रातिवेश्मिकानां बालकैस्सह तुलना कता, केवलं ७ Ma प्रेम्णैव बोधिता तया । एवं जनन्या तस्या अतीव धैर्येण पालनं कृतं, संस्कारारोपणं are कृतं च । तत एव बाल्यकाले उन्मत्तोद्धता चाऽपि बालिका यौवने जापानदेशस्य
संस्कारी कन्या जाता, सर्वेषु लोकप्रियाऽपि जाता, अहो ! तन्नाम्ना पुस्तकमपि " प्रसिद्धमभूत् । अवश्यमेतत् पुस्तकं पठनीयं त्वया । एतेन ज्ञायते बालकस्य 36 विकास: प्रेम्णा धैर्येणैव च शक्योऽस्ति ।
O अथेदानीं पितृभ्यां पुत्रेण सह यथा व्यवहारः क्रियते तन्निरीक्ष्य "यथा 0 P) विशिष्टपदनियुक्तेः पूर्वं प्रतिनियतशिक्षा दीयते तथैव विवाहसंस्कारस्य पूर्वं पुत्रस्य ka 38 पालनं कथं करणीयमिति शिक्षा प्रतिव्यक्त्यवश्यं देये' त्याभाति । "प्रसिद्धशालायां Xe
प्रशिक्षणवर्गे चाऽनुदानं दत्त्वाऽपि प्रवेशनम्, श्रेष्ठशिक्षकस्य सकाशादध्यापनम्, Pay यातायाता) यानव्यवस्था, अभीप्सितवस्तूनामानयनम्, अमूल्यानां वस्त्राणामद्यतन
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org