SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ र महिला सोमः पठितशिक्षितानां नेत्राणि दूरवीक्षणयंत्रकल्पानि भवन्ति ।। पतिः भाग्यवति ! कति रूप्यकाणि प्राप्तानि ? __ भो ! आत्मानं रक्ष प्रथमम् । पश्चाद्रूप्यकाणां गणनां करिष्यसि एतत्सर्वं मम मृषाविलपनस्य मूल्यम् ।। पतिः (अपाङ्गमाकुञ्च्य) अलं मृषावादेन । भाग्यवति ! एतत्सर्वं मम मृषामरणस्य मूल्यम्। (उभो प्रहसन्तौ समुगकमादाय सघननगरवीथ्यां प्रविशतः) (स्थानमुपेत्य चालकं प्रति) तिष्ठ तिष्ठ, वाहनमत्रैव स्थापय । (भिषजा सहावतीर्य परितोऽवलोक्य) अये न कोऽप्यत्र । क्व गताऽसौ महिला ? (इति सर्वतोऽवलोकयति) ६ गिरिधरः श्रीमन् ! गिरिधरनामाऽहं ताम्बूलविक्रेता । अयं ममाऽऽपणः । मन्ये ६१ कमपि मार्गयते भवान् ? सोमः भद्र ! अत्र काचित् महिला मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमाना मयाऽवलोकिता। सम्प्रति नाऽवलोक्यते ! R गिरिधरः श्रीमन् ! इदानीमेव गताऽसौ प्रबुद्धेन पत्या सार्धम् । १ सोमः (साश्चर्यम्) किमुक्तं भद्र ? प्रबुद्धेन पत्या सार्धं गता ? * गिरिधरः (सस्मितम्) अथ किम् ! । सोमः भद्र गिरिधर ! एतत् किमुच्यते त्वया ? स तु मृत आसीत् ? गिरिधरः श्रीमन् ! सत्यमहं भणामि । असौ जनस्तु प्रतिदिनमत्रैव धवल प्रच्छदेनाऽऽत्मानं प्रच्छाद्य शयानस्तिष्ठति तत्पत्नी च तं मृतं प्रख्याप्य सकरुणक्रन्दनं तदन्त्येष्टिनिमित्तं धनं याचते । प्रायेणाऽर्धहोरामितेन नाट्येन पञ्चाशद्रूप्यकाण्यर्जयति महिलेयम् । सोमः तत्किमिदं सर्वं मरणनाट्यमेव ? गिरिधरः अथ किम् । जीवनदं मरणनाट्यमिति वाच्यम् । सोमः भद्र ! किमिदं नाट्यं यूयं पूर्वत एव जानीथ ? ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy