________________
Jain Education International
D1199
वाचकानां प्रतिभावः
H. V. Nagaraja Rao 90, 9th Cross Navilu Road, Mysore-570023
नन्दनवनकल्पतरोरद्राक्षं षोडशं कुसुमम् । द्राक्षामपि मे हृदयं रूक्षामधुना वीक्षते नितराम् ॥
सन्त्यत्र देववाण्या रचितानि रुचिरपद्यानि । रसवन्ति च शोभन्ते हृद्यानि मधुरगद्यानि ॥
लास्यं सपदि विधत्ते हास्योऽपि रसोऽत्र मर्मनर्मगणे । पास्यति सुधां विपश्चिद् हास्यति शोकं पठन्नेतम् ॥
नीतिं भजन्तु सन्तः, पापाद् भीतिं त्यजन्तु जन्तुगणाः । मुक्तिं व्रजन्तु लोका नन्दनवनकल्पकं दृष्ट्वा ॥
भारतदेशस्यैक्यं संसाधयितुं समर्थ इह नूनम् । नन्दनवनकल्पतरुः संस्कृतभाषात्मको जीयात् ॥
5
For Private & Personal Use Only
www.jainelibrary.org