SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रचारस्य, न धर्मान्तरणम् । किंरूपोऽयं प्रचारो यदन्यस्य गृहं प्रविश्य तं तस्य स्वधर्मात् च्यावनम् ? यत्रौदार्यं नास्ति स कीदृशो धर्म: ? तादृशस्याङ्गीकरणं तु धर्मभ्रंश एव, न धर्मान्तरणम् । अन्यच्च, आचारविषयो धर्मः । धर्म उपदेष्टव्य एव केवलं, न बलात्कारेणाऽन्येन वा केनचिद् रूपेण कस्यचिदपि स्वीकारयितव्यः । धर्मपरिवर्तनं नाम मातापित्रोः परिवर्तनम् । को नामैतत् स्वीकुर्यात् सहेत वा ? मातापितरावेकावेव भवतो यथा तथा धर्मोऽप्येक एव भवति । कञ्चित् कश्चित् तस्य मातापितृभ्यां येन केनाऽपि रूपेण वियोजयति चेत् तस्य विरोधो नाऽसहिष्णुताऽपि तु तस्याऽधिकार एवः । धर्मान्तरणमस्त्यनधिकारचेष्टा । वेटिकनप्रदेशे केवलमैसवीया एव निवसन्ति । नाऽन्ये केऽपि तत्र वस्तुमर्हन्ति। अथ, तत्रत्यः कश्चिद् यदि हिन्दुधर्ममङ्गीकुर्यात् तर्हि किं ते तत् स्वीकुर्युः ? सहेरन् वाऽपि किम् ? अन्यधर्मप्रचारार्थं त्वनुमतिमपि ते नैव दद्युः का वार्ता तर्हि तत्र धर्मान्तरणस्य ? अत्र च भारतदेशे धर्मप्रचारार्थं तेऽनुमताः, एतदेवाऽस्य देशस्यौदार्यं सहिष्णुता च । तथापि यदि त एतादृशमयोग्यं विधानं कुर्वन्ति तर्हि तेषां धर्मप्रचारोऽपि निषेधनीयः । अन्यथा गच्छता कालेन स्वप्रभुत्वं स्थापयितुं यत्किमपि कर्तुं ते प्रयत्नान् करिष्यन्त्येव । ये स्वकीयामनिष्टामपि धर्मान्तरणप्रवृत्तिं सत्यापयितुं न्याय्यां च प्रख्यापयितुमेवं स्पष्टतया वक्तुं साहसं कुर्वन्ति ते स्वस्वार्थसिद्ध्यर्थं किं न कुर्युरित्येव प्रश्नः । बहु चिन्तनीयमेतत् । तैस्तु भारतस्य भारतीयानां च सौजन्यायौदार्याय च कृतज्ञताऽभिव्यक्तव्या, तत्तु दूरे, प्रत्युत यद्वा तद्वा प्रलापं कृत्वा भारतं भारतीयांश्चाऽवमानयन्तीति खेदस्य विषयोऽयम् । भारतसर्वकारेण वेटिकनाधीशस्य कठोरमुपालम्भं दत्वा विधानमेतद् यत् प्रत्यादिष्टं तत् प्रशंसार्हम् । कीर्तित्रयी आषाढशुक्ला पञ्चमी अहमदाबाद Jain Education International 4 For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy