________________
वाचकानां प्रतिभावः
प्रा. अलकेश दवे
संस्कृत/ प्राकृत विभाग, गुजरात आर्ट्स एण्ड सायन्स कोलेज,
__ एलिसब्रीज, अहमदाबाद 'नन्दनवनकल्पतरोः' षोडशोऽङ्कोऽधिगतः । भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।
सरलसंस्कृतवाण्याः प्रचाराय इयं पत्रिका उपकारिकी इति मया चिन्तितम् । पत्रिका उत्तमा वर्तते । वासुदेव पाठकस्य काव्यत्रय्याः पठनात् महान् आनन्दः अनुभूतः । मुनिरत्नकीतिविजयस्य 'आस्वादः'-विभागे प्रकाशितः 'चिन्तनधारा' चिन्तनयोग्या अस्ति । विषयः गम्भीरः रुचिरः च अस्ति । सर्वे लेखाः मह्यम् अतीव अरोचन्त ।
'जनप्रियत्वं सुखाय वा दुःखाय वा ?' इत्येषा कथा रुचिपूर्णा उपदेशप्रदा च अस्ति ।
अयि नन्दनवनकल्पतरुसम्पादिके कीतित्रयि !
त्वामहं सादरं सविनयं नमामि । पत्रिकायाः षोडशाङ्कः प्राप्तः, तदर्थं बहुधन्यवादः । अत्राऽऽचार्यरामकिशोरमिश्रकृता सुकन्या नाम कथा पठिता, सा च्यवनप्राशनिर्मात्री विज्ञाता । श्रीमिश्रसङ्कलिता 'सउन्दलाचरियं' नाम प्राकृतकथा विशिष्टा । श्रीशारदावन्दनं, भक्तामरसमस्यास्तवः, श्रीशत्रुञ्जयतीर्थचैतन्यवन्दनस्तवनस्तुतयश्च प्रभावशालिन्यो मनोहराश्च रचनाः सन्ति । भवदीयं प्रास्ताविकं स्वधर्माचरणाय जनान् प्रेरयतीति शम् ।।
भवदीयः - राजेशकुमार मिश्रः
अध्यापकः, राजकीय इण्टर कोलिज,
नागराजाधारः (बमुण्ड) पत्रालय-कखवाड़ी वाया - चम्बा (टिहरीगढ़वाल:) उत्तराञ्चलम्-२४९१४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org