________________
शकुन्तलाविरहे दुष्यन्तस्य भावदशायाचित्रणं यद्यपि मार्मिकं विद्यते, M तथापि तत्र शुचिता मर्यादा वा न विराजते । वक्ष्यमाणपद्ये भगशब्दप्रयोगे समीचीनता न विभाति । एवंविधमनौचित्यमन्यत्रापि केषुचित् पद्येषु दृश्यते ।
'जङ्घाद्वयं तव तथा भाति, यथा विभातो रम्भाजघने । ययोरन्तरे भगप्रभावात्त्वं कथ्यते, भगवती भवने । तस्य महत्ता जगति पूजयति, नारी सदा प्रेमरसपाने ।'
(नारी०, पृ. ९२) शकुन्तलातनयस्य भरतस्य बालजीवितस्य बहूनि रम्यतराणि चित्राणि डॉ. मिश्रमहाभागेन प्रस्तुतानि । कथाकारस्याऽत्र नैसर्गिकं मनोज्ञं कवित्वं प्रतिभातितराम् । देववाणीकथासु बालवर्णनस्यैवंविधा सूक्ष्मता हिन्दीमहाकवेः सूरदासस्य स्मृति समुद्भावयति ।
क्षणे प्रीतो लब्ध्वा स्वमभिलषितं वस्तु किमपि, पुनर्दष्ट्वा हस्तात्पतितमपि तद् रोदिषि बहु । अवाप्याऽन्यत्किञ्चिद् व्यपगतरुषो हृष्यसि सुत ! ततो दर्श दर्श विहससितमामङ्कनिहितः ॥' (नारी., पृ. ८२) 'मयूरं नृत्यन्तं वनमिदमटन्तं दृशि दधद्, मयूरी केकन्तीं प्रियमनुसरन्तीं स्वरसिकम् । पिकन्तं कूजन्तं धरणिमिह मेहन्तममरम्,
गिरं तैः साकं योजयति स शिशुहृष्यतितमाम् ।।' (नारी, पृ. ८४)
अन्यासु कथासु ग्रन्थकृतः किमपि नवं वैभवं न दृश्यते किन्तु वेदादिषु श्रुतानामपालादीनां नारीणां कोऽपि परिचयो ज्ञायते एव । अत्र मुद्रणत्रुटि: प्रायशो नैव विद्यते, किन्तु एकोनविंशे पृष्टे द्वितीयं भ्रामरं गीतं न वर्तते । नारीकथाक्षेत्रेऽयं ग्रन्थः सर्वैः पठनीयः संग्राह्यश्च । जयतु संस्कृतं संस्कृतिश्च ।
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org