SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ साम्प्रतकालिक्यो व्याख्याः LARISM ~ मित्रम् मुनिधर्मकीर्तिविजयः क्रियमाणान्यशुभानि कार्याणि तथा भवदहितं ज्ञात्वाऽपि यस्सन्मार्ग न दर्शयति, किन्तु मधुरवचनव्याजेन गर्तायां पातयित्वा यो रोदिति । करुणोत्पादकानि वचनानि च वदति स मित्रमुच्यते । प्रियः अन्यत्र निन्दां करोति, गुह्यानि च प्रकटयति, किन्तु तत्समक्षं नितरां प्रशंसते स प्रियः । सज्जनः दुराचारी, व्यसनी, असत्यभाषी, अहङ्कारी च सन्नपि मधुरभाषया दम्भाचरणेन चाऽन्येषां हृदयाण्याकृषति, तथा तेषां चित्ते एष सुशीलस्सज्जनश्चेति धियमुत्पादयति स सज्जनः । चतुरः यो वञ्चनायां श्रेष्ठः, स्वदुर्गुणानपि सद्गुणरूपेण वर्णयितुं समर्थः, तथाऽवसरानुगुणं स्वमहेच्छां पूर्णीकर्तुं यः कुशलस्स चतुरः । गुणानुरागी स्वकीयकार्ये निरुपयोगिनामन्येषां सद्गुणानपि दुर्गुणरूपेण तथा प्रियजनानां दुर्गुणानपि सद्गुणरूपेण यो वर्णयति स गुणानुरागी । पुण्यशाली योऽशुभानि कार्याणि कुर्वनपि प्रशंसां प्राप्नोति लोकप्रियश्च भवति तथा यस्य दुष्टवचनमपि सर्वमान्यं भवति स पुण्यशाली ।। धर्मी दम्भ-प्रपञ्चासत्याचरणं चेत्यादिद्वारेण जनान् वञ्चयन् भक्तिं प्रभुपूजां धर्मकार्ये धनव्ययं चेति सत्कार्याणि करोति स धर्मी । समर्पितः 'एतन्निन्दनीयमकरणीयं चाऽस्ति' इति जानन्नपि ज्येष्ठजनानामिच्छाया , अनुगुणं वर्तते, तेषामसत्यकथने दुष्टकार्ये च विरोधं न करोति, तथाऽशुभकार्यकरणे साहाय्यं करोति स समर्पितः । ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy