SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ | निश्चेतुं कांश्चिन्निष्कान् हस्ताभ्यां गृहीतवान् । 'हं, निश्चयेन स्वर्णस्य वृष्टिरेवैषा' इति । विचिन्त्य हस्तद्वयं संयोज्य नेत्रे निमील्य च भगवन्तं प्रति पार्थितवान् - 'हे भगवन् ! पटलं भित्वा त्वया स्वर्णवृष्टिः कृतेति मया दृष्टः स्वप्नस्त्वत्कृपयैवाऽद्य फलितोऽस्ति । बह्वनुगृहीतोऽस्मि भगवन् !' इति । ___तस्योच्चैः कृतायाः प्रार्थनायाः शब्दान् श्रुत्वा इच्छारामः साश्चर्यमधो निरीक्षितवान् । तेन दृष्टं यत् तत्र सत्यमेव निष्का आसन् । तद् दृष्ट्वा सोऽत्यन्तं खिन्नमना जातः । ललाटे हस्तमास्फाल्य "हा ! हा ! किमेतन्मयाऽऽचरितम् । अविचारितमाचरितमेतत् । यद्यधैर्यं न कृतं स्यात् तर्खेतादृशं फलं न प्राप्तं स्यात् । / अधैर्येण मया सर्वमपि नाशितम्" - इति पश्चात्तापं कृतवान् मनस्येव । शनैश्च ततोऽवतीर्य गृहं प्राप्तवान् । कृत्याकृत्यविदोऽपि धर्ममनसोऽप्यन्यायतो बिभ्यतोऽप्यश्लाघ्यं पुरुषस्य दैववशतस्तत् किञ्चिदुज्जृम्भते । माहात्म्यं विभवं कला गुणगणः कीर्तिः कुलं विक्रमः सर्वाण्येकपदेऽपि येन परितो भ्रश्यन्ति मूलादपि ॥ ( नलविलासनाटके) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy