________________
कथा
गृहस्वामिनीचय नम्
मुनिधर्मकीर्तिविजयः
पुरा किल मगधाभिधो देश आसीत् । तत्र राजगृहं नाम नगरमासीत् । तस्मिन्नगरे धनाख्यः श्रेष्ठी वसति स्म । तस्य धारिणी नाम सुरूपा लावण्यवती च पत्नीरासीत् । तयोर्धनपालो धनदेवो धनगोपो धनरक्षितश्चेति चत्वारः पुत्रा आसन्। यथाकालं ते चत्वारोऽपि पुत्रा यौवनं प्राप्ताः । ततश्च पिता श्रेष्ठिनां रूपवतीभिः कन्याभिस्सह तान् पुत्रान् पर्यणाययत् ।
अन्यदा पितुर्मनसि गृहचिन्ता सञ्जाता 'एतासां वधूनां मध्ये का वधूर्मे गृहभारं वोढा ? अतस्तन्निश्चेतुं तासां परीक्षा कर्तव्येति विचिन्त्य तेन श्रेष्ठिना भोजनार्थं सर्वेऽपि स्नेहिजना आमन्त्रिताः । भोजनानन्तरं श्रेष्ठिना तेभ्यस्सर्वेभ्योमूल्यानि विविधान्युपायनानि दत्तानि, पश्चात् स श्रेष्ठी ताभ्यः सर्वाभ्यो वधूभ्यः पञ्च पञ्च शालिकणान् ददौ जगाद च - 'यदाऽहं कथयेयं तदैते मे दातव्याः । श्रेष्ठिन एतादृशं विचित्रं वर्तनं वीक्ष्य सर्वेषां परिवारजनानां चित्ते आश्चर्यमभूत् । अथ प्रथमा वधूश्चिन्तयाञ्चकार - 'सत्यं खलु मे श्वशुरस्य बुद्धिर्भष्टा, येन सर्वेषां स्नेहिजनानां मध्ये पञ्च शालिकणान् दत्त्वा मेऽवमाननं कृतम् । एतैः किं मे प्रयोजनम् ? यदा श्वशुरो याचिष्यते तदाऽन्यान् दास्यामी'ति । सा तान् शालिकणानुज्झितवती ।
अथ द्वितीया वधूः 'एतैर्न मे किमपि प्रयोजनमस्ति तथाऽपि श्वशुरेण दत्तानामेतेषां त्यागो नोचित' इति चिन्तयित्वा सा तत्क्षणमेव श्वशुरस्य प्रसादं मत्वा तान् शालिकणान् भक्षितवती ।
-
तृतीया वधूर्व्यमृशत् - 'प्रयोजनं विना व्यवहारनिपुणो जनको न कदाऽप्येवं करोति' । अतस्तया ते शालिकणा रक्षणबुद्ध्याऽऽभरणसमुद्रके रक्षिताः ।
Jain Education International
'कनीयसी वधूर्व्यचिन्तयत् - 'मम श्वशुरश्चतुरस्सुधीश्चाऽस्ति । ततः केनचित् कारणविशेषेणैव स बान्धवजनानां समक्षमेतान् पञ्च कणान् दत्तवान् । अथ एतेषां वर्धनं करणीय'मिति । सा त्वरितमेव स्वपितुर्गृहे तान् शालिकणान् प्रेषितवती सूचितवती च - 'भवद्भिस्स्वक्षेत्रे एते पुनः पुनर्वपनीया वर्द्धनीया चे 'ति । मया सूचिते सति भवद्भिः प्रेषणीयम् । तैरपि तत्कथनानुसारेणैव कृतम् ।
५३
For Private & Personal Use Only
www.jainelibrary.org