________________
सिकन्दरस्त्वेतादृशं वादं श्रुत्वा किंकर्तव्यविमूढ इवैव सञ्जातः- 'अरे ! | मम देशे तु परकीयमपि स्वायत्तीकरणे सर्वेऽप्युत्सुका उद्यताश्च वर्तन्ते । किन्त्वत्र तु विपरीतमेव दृश्यते ।' कीदृशं निर्णयं नृपतिरत्र श्रावयिष्यतीति ज्ञातुं स उत्कण्ठितो जातः ।
तावन्नृपतिर्वादि-प्रतिवादिनावुद्दिश्य पृष्टवान् - 'किं भवतोगुहयोः पुत्रपुत्र्यौ स्तः ?' उभावपि 'आम्' इति प्रत्युत्तरं दत्तवन्तौ । प्रतिवादिनो गृहे युवा पुत्र आसीत्, वादिनश्च गृहे तस्य पुत्र्यासीत् ।
'यद्येवं, न्यायः सुकरः शोभनश्च भविष्यति' - राजाऽवदत् । 'वादिनः पुत्र्याः परिणयः प्रतिवादिनः पुत्रेण सह भवतु । पश्चात् तत् स्वर्णं पुत्र्यै ददातु । । अथ नाऽस्ति कोऽपि प्रश्नः, एष मे निर्णयः' - नृपतिरुवाच । .
उभावपि सहर्षं तदङ्गीकृतवन्तौ । एतादृशेन निर्णयेन चकितं सिकन्दरं दृष्ट्वा नृपतिः पृष्टवान् - "किं काऽपि क्षतिरस्ति मम निर्णये, अन्यायपूर्णो वाऽयं निर्णयः, येन चकितोऽस्ति भवान् ?'
'नैवम्, नैवम्, नाऽस्ति काऽपि क्षतिर्नाऽप्यन्यायपूर्णोऽयं निर्णयः । किन्तु यदि मम देशे किमप्येतादृशमुपस्थितं स्यात् तर्हि - 'उभयोरपि शिरश्छेदं कृत्वा सुवर्ण राज्यायत्तं करणीयम्' - एतादृशो निर्णयो मया श्रावितः स्यात्' इति ) सिकन्दर उक्तवान् ।
तस्य साम्राज्यस्यैतादृशीमन्यायपूर्णामत्याचारपूर्णां च पद्धतिं श्रुत्वाऽऽश्चर्यमनुभवता आफ्रिकादेशीयनृपतिना प्रश्न एक समुपस्थापितः - 'राजन् ! भवतो देशे किं सूर्यमुदेति वा ? मेघपतिः किं वा वर्षति तत्र ?'
सम्राडुक्तवान् - 'आम्-आम् ! उदेत्येव नित्यं प्रातःकाले सूर्यः, वर्षत्यपि च यथासमयं मेघपतिः । किन्तु किमेतादृशा प्रश्नेन ?'
नृपतिरभाषत - ‘भवतो देशे ये पशु-पक्षिणो निवसन्ति, तेषां कृत एव सूर्यः प्रकाशमानः स्याद् मेघपङ्क्तिश्च वर्षन्ती स्यात् । यतो यत्रैतादृशोऽन्यायः प्रवर्तते तत्र तादृशीनां प्रजानां कृते तु सूर्यस्योदयो मेघानां च वर्षणं नाऽऽवश्यकमेव' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org