SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ग्रीवा नामाऽवगता मया परन्तु किमियं वक्रा नाम ? - स पृष्टवान्। १६ अस्योत्तरत्वेनाऽहं तस्य हस्तं गृहीत्वा प्रथमं प्रसारितवान् तदनु च कूर्परदेशे र आकुञ्चितवान् । ततश्च वकं नाम किमिति तं बोधितवान् । यदा स सम्यगवबुद्धवांस्तदा सहसोक्तवान्-अहो ! इदानीं भवता दुग्धेति१० नाम्ना किं विवक्षितमिति ज्ञातं मया ।' १ इयमेव सापेक्षता यदुत प्रत्येकं वस्तु अन्यानपेक्षं न वर्तेत । तदेनं सापेक्षता सिद्धान्तमनेकान्तसिद्धान्तं वा न कोऽपि प्रतिक्षेतुमर्हति । सर्वैरपि यथाकथञ्चनाऽपि 6. स सिद्धान्तः स्वीकर्तव्य एव । यदाहुः कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः ११ वीतरागस्तवेऽष्टमप्रकाशे द्वयं विरुद्धं नैकत्राऽसत्, प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ।।७।। विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो नाऽनेकान्तं प्रतिक्षिपेत् ॥८॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन । यौगो वैशेषिको वाऽपि नाऽनेकान्तं प्रतिक्षिपेत् ।।९।। इच्छन् प्रधानं सत्त्वाद्यैविरुद्धैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो नाऽनेकान्तं प्रतिक्षिपेत् ॥१०॥ एषोऽनेकान्तवादः सापेक्षतावादो वा सदाऽस्माकं व्यवहारपथेऽवतीर्याऽस्मान १. साम्यपथेऽवतारयतु । ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy