SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ - ॥३६॥ ॥३८॥ Sto a website is abar मोहव्याप्तजगन्महोदयकृते त्यक्त्वा समृद्धि परां त्वं तीर्थङ्करकर्मशर्मकरणं धृत्वा स्वबोधात् ततः ।। श्रीदीक्षां शिवसौख्यदूतिमधरः पश्चाच्छिवस्थानकं कैवल्येन करस्थितामलकवत् पश्यस्त्रिलोकीं गतः ॥ कविनामगर्भश्चकबन्धः ।। यस्मादाविरभूत् स्तुतागमवरोऽरिग्रामभीत्यत्ययः ।। शोभाढ्यो महितः शिवाय महतामानन्ददानां वरः ॥ विश्वव्याप्तभयार्त्तिनाशमतुलं यं प्राप्य लेभे शुचिः जय्या यस्य नमामि पार्श्वमनिशं तं कर्मसेना तता ॥३७॥ ॥ स्तुत्यस्तोतृनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यलसद्वाद ! जय खेचरसौख्यद ! ।। जयेश्वर ! यशोह्लाद ! जयारं विजयप्रद ! ॥ स्तुत्यनामगर्भो बीजपूरप्रबन्धः ॥ जय शंस्यगुणश्रीक ! जय खेदप्रभेदक ! ।। जयेश्वर ! शिवश्रीक ! जय रम्ययशोऽधिक ! ॥३९॥ अद्य मे सफला सूक्ति-रद्य मे सफला मतिः ॥ अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥४०॥ इत्येवं स्तुतिभिर्यशोविजयइत्याख्येन शिष्याणुना श्रीमन्नेमिविभोः पदाम्बुजयुगध्यानप्रभावात् स्तुताः ।। श्रीशङ्केश्वरमण्डनाः क्षितितले भव्यावलीसेविताः सन्तापन्तु हरन्तु भव्यभविनां पार्वाधिराजाः सदा ॥४१॥ श्रीनेमीश्वरसूरिराज्यसमये भाद्रे सिते पञ्चमीतिथ्यां भावपुरेऽभवन्मम वरो यत्रः स एष प्रभोः ।। श्रीनेमीश्वरसद्गुरोः पदयुगध्यानप्रसादादरं साफल्यं समवाप पापहरणः प्राज्ञप्रमोदावहः ॥४२॥ ॥ इतिश्रीप्रतापप्रभापटलव्याप्तदिगन्तरालकीर्तिकौमुदीनिमज्जितराकाकान्तमहोपदेशामतसारसेचनप्रोज्जीवित* जैनधर्मकल्पद्रुमाचार्यवर्यश्रीमद्विजयनेमिसूरिगुरुपादपद्ममकरन्देन्दिन्दिरप्रवरयशोविजयकृतायां स्तुतिकल्पलतायां प्रथमस्तबके सहृदयकण्ठशोभिनी पावोज्ज्वलगुणगुम्फिता विविधच्छन्दोमयमुक्तकषट्विंशिका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy