SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अलक्ष्याऽसह्या यैर्बहुकलितदुःखा नृनयनैः त्रिलोकी भिन्दाना शठकमठजाता समसहि ॥३०॥ सदा देवासेवान्त्यजत उपकाराय सहसा यदूनां दूनानां क्षितितलमलङ्कुर्वत इव ।। जराजीर्णा दीर्णाः स्नपनजलतस्तेऽमृतभुजः प्रसन्नाः संपन्ना यदुकुलभवारूपमतुलम् ॥३१॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ श्रीदेवासुरसंस्तुतक्रमयुगो भव्याब्जभानूदयः श्रीदेवत्वमचिन्त्यशक्तिकलितः पापप्रणोदक्षमः ।। आश्चर्यं प्रतिभाति यच्छिवपदे दूरेऽपि संस्थायको भव्यानां विपदः करोषि विपदाः सत्सौख्यकल्पद्रुम ! ॥३२॥ स्याद्वादामृतवर्षिणी भगवती यद्वक्त्रनिःस्यन्दिनी गीः शृण्वन्नरनाकिलोकहदयानन्दाश्रुदानक्षमा ॥ मुग्धान्तस्थितिकप्रमोहतिमिरवाते तु सूर्यप्रभा श्रीपार्श्वः स करोतु भव्यभविनामानन्दवृद्धि सदा ॥३३।। त्वन्नामस्मरणाद् भवन्ति विबला व्याघ्रादयः प्राणिनस्त्रैलोक्यं स्वबलाज्जिघत्सुरिव यो दन्दह्यमानो दवः । सोऽपि त्वत्स्मरणाद्विमूढनरवत् किञ्चिन्न कर्तुं क्षमः ॥ स त्वं वाञ्छितदायको विजयसे शङ्केश्वर ! श्रीप्रभो ! ॥३४॥ अद्यैवोत्तमताऽभवच्च शिरसो यत्त्वत्रतेः साधनं हस्तौ मे सफलत्वमञ्जलिकृतेराप्तौ जिनेशस्य ते ॥ अद्यैवोत्तमतां दधाति दिवसो मे प्राप्तपुण्योदय इत्याल्हादभरेण नौम्यभयदं शङ्केश्वरं सौख्यदम् ॥३५॥ सर्याश्वैविरतं बधैरिह भवेत् पूर्वं मसंज्ञो गणस्तस्मात्स्यात्सगणस्ततश्च जगणस्सस्स्यात् ततोऽनन्तरम् । तस्मात्तश्च ततस्स एव यदि चेदेकेन गेनाऽन्वितः । यस्मिंस्तत्कथितं I विशुद्धमतिभिश्शार्दूलविक्रीडितम् । उट्टवणिका यथा 555 ॥ऽ ।। ||S 55। 55। 5 ॥३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy