SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २. नोआगमतः द्रव्यमगलं त्रिधा भवति । ज्ञशरीरद्रव्यमङ्गलं, भव्यशरीरद्रव्यमङ्गलं, तद्व्यतिरिक्तद्रव्यमङ्गलं चेति । तत्र च नो-आगमत इत्यत्र नोशब्दः (१) सर्वनिषेधवाचको (२) देशनिषेधवाचकश्च । अतस्तदपेक्षया एतत्त्रयमपि भेदद्वयान्वितं भवति । तत्र- . १. ज्ञशरीरद्रव्यमङ्गलम् (१) ज्ञशरीरं नाम मङ्गलपदार्थज्ञदेहस्तदेव मङ्गलम्। अयमत्राऽऽशयः - मङ्गलपदार्थो येन पूर्वं सम्यक्तया ज्ञातोऽन्येभ्यश्च र प्ररूपितस्तस्य सिद्धशिलातलादिस्थितस्य योऽत्र जीववियुक्तो देहः सोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानस्याऽऽधारत्वान्नोआगमतो द्रव्यमङ्गलम् । अत्राऽ ऽगमस्य सर्वथाऽभावानो -आगमत इत्युक्तम् । तथा, - यथाऽतीतघृताधारपर्यायहेतुत्वाद् रिक्तघृतकुम्भोऽपि घृतघट उच्यते तथाऽतीत- Y मङ्गलपदार्थज्ञानरूपागमपर्यायकारणत्वाद् देहोऽप्ययं द्रव्यमङ्गलमुच्यते । अत्र नोशब्दः सर्वनिषेधवाचकः । इदानीं देशनिषेधवाचकनोशब्दापेक्षयोच्यते । (२) भूतस्याऽऽगमस्याऽचेतनः सचेतनो वा देहः कारणम् । स स्वकार्यभूतस्याऽऽगमस्यैकदेशे वर्तते यथा मृत्तिका घटैकदेशे वर्तते । अतः स देहो नोआगमतो द्रव्यमङ्गलमुच्यते । - अत्राऽऽह कश्चिद्-ननु घट-मृत्तिकयोस्त्वभेद एव, तत्कथं मृत्तिका घटैकदेशे वर्तत इत्युच्यते ? मैवं, जैनानां तु भेदाभेदौ उभावपि सम्मतावेव । यदुक्तम् "नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो। जं पुण घडो त्ति पुव्वं नाऽऽसी पुढवी तओ अण्णो ।' - पुनरप्याह - ननु मङ्गलस्य परिणामिकारणं तु जीव एव । स एव च । स्वकार्यैकदेशे वर्तेत, शरीरे कथमेकदेशवृत्तिता स्वीकृता भवता ? । सत्यम् । किन्तु - ‘अन्योन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् । X यथा क्षीरपानीययोः....' इति वचनाद् व्यवहारे संसारिजीवस्य देहेनाऽभेद -Y एवाऽनुमतः । अतो यदि जीवः परिणामिकारणं तदा देहोऽपि परिणामिकारणत्वेन , विवक्षित एव । अतः सोऽपि आगमैकदेशवृत्तिर्भवति । . * सं. छाया : नास्ति पृथ्वीविशिष्टः घट इति यत् तेन युज्यतेऽनन्यः । यत्पुनर्घट इति पूर्वं नाऽऽसीत् पृथ्वी ततोऽन्यः ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy