________________
K
मुञ्चति ।) ___अथवा द्रवति-तांस्तान् पर्यायान् - गच्छतीति दुः सत्ता, तस्या अवयवो विकारो वा द्रव्यम् ।
अथवा रूप-रसादिगुणानां संद्रावः समुदायो घटादिरपि द्रव्यम् ।। ____ अथवा 'भविष्यतीति भावः' तस्य भावस्य यद् योग्यं तद् राजपर्यायार्हकुमारराजवद् द्रव्यम्।।
____ अथवा भूतभावोऽपि द्रव्यम् । भूतः-पश्चात्कृतोऽनुभूतः पूर्णीभूतो वा . ) भावः पर्यायो यस्य तद् भूतभावमपि द्रव्यम् । यथाऽनुभूतघृताधारत्वपर्यायो रिक्तघटः ।
एवं भूत-भविष्यत्पर्याययुतमपि द्रव्यमेव । यथाऽनुभूतघृताधारत्वपर्यायो ? रिक्तघटः पुनरपि भविष्यत्काले घृताधारत्वपर्यायमनुभविष्यति । (अत्र च यद् भूतभावस्य भविष्यद्भावस्य च योग्यं भवति तदेव द्रव्यमुच्यते । अन्यथा सर्वेषां पुद्गलानां सर्वभावतया परिणतत्वात् परिणंस्यमानत्वाच्च सर्वमपि द्रव्यत्वं प्राप्नुयात् ।) Y
इदानीं द्रव्यमङ्गलमाहद्रव्यमङ्गलं द्विभेदं भवति - (१) आगमतः (२) नोआगमतश्च ।
(१) आगमतः - मङ्गलशब्दार्थज्ञानमेवेहाऽऽगमः । यो वक्ता मङ्गलशब्दार्थज्ञानानुवासितमानसोऽपि तत्प्ररूपणकाले तत्राऽर्थेऽनुपयुक्तोऽ-- प्रणिहितचित्तवृत्तिको भवति स एव आगमतो द्रव्यमङ्गलं भवति ।
अत्र प्रेरक: प्रश्नयति -
ननु मङ्गलशब्दार्थज्ञानं यद्यागमस्तर्हि तत् कथं द्रव्यमङ्गलम् ? आगमस्तु ₹ भावमङ्गले एवाऽन्तर्भवति न तु द्रव्यमङ्गले । अथ च तद् द्रव्यमङ्गलमेव तदा न X
तदागमो, द्रव्ये आगमाभावात् । अतो 'द्रव्यमङ्गलमागमतः' इति कथनमेव दूरविरुद्धम् ।
अत्राऽऽहोत्तरमाचार्यः -
सत्यम् । किन्त्वनुपयुक्तवक्तु वः शरीरं शब्दश्चेति त्रयमप्यागमस्य कारणम् । तत्राऽपि जीवः शरीरं चोपादानकारणं तस्य । नहि तयोविना कदाऽप्यागमास्तित्वम्। । तथा शब्दोऽप्युच्यमानः शिष्यगतस्याऽऽगमबोधस्य कारणम् । एतच्च त्रयमपि । द्रव्यमेव । ततश्च कारणे कार्योपचाराद् एतेषां त्रयाणामप्यागमत्वात् द्रव्यमङ्गलत्वमेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org