________________
ܐܳܪܰܓ݂ܪܰܓ݂ܪܰܓ݂ܪܰܓ݂
जयन्तः। अस्तु । वसन्तः इदानीमेव तव गृहे आगच्छामि । (दूरभाषायन्त्रं मुक्त्वा समीपस्थितस्य
पितुः पादयोः पतितः ।) पितर् ! अद्य भगवतः कृपाऽस्माकमुपरि
सञ्जाता । तेन द्वौ पुत्रौ दत्तौ। मनमोहनः (सहर्ष) मया सर्वमपि श्रुतम् । अधुनैव गच्छ, मा विलम्बस्व ।
(वसन्तस्तिलकाया वदनं वीक्ष्य गच्छति । क्षणेनैव 'कार' यानेन मित्रगृहं गच्छति प्रविशति च । तदा जयन्तो दीपिका मेघना चेति सर्वेऽपि
चिन्तामग्ना आसीनास्सन्ति । वसन्तं दृष्ट्वा) जयन्तः आगच्छ । आगच्छ । (आसन्दं दर्शयित्वा) उपविश । वसन्तः (सरभसं) बालकौ कुत्र स्तः ? जयन्तः (शयनखण्डं प्रविश्य) अत्राऽऽगच्छ, पश्य । वसन्तः (सुप्तौ तौ निरीक्ष्याऽतिप्रसन्नतामनुभवन्) पुत्र ! पुत्र ! (इति वदन्
चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । नयनाभ्यां हर्षोद्रेकादश्रुधारा
प्रवहति ।) जयन्तः मित्र ! मित्र !
बन्धो ! एतौ नयामि ।
मित्र ! पुत्रवत् पा..ल...नीयौ । (रोदिति) वसन्तः (सहर्षम्) अवश्यम् । (कोमलहस्ताभ्यां गृहीत्वा बहिर्गच्छति, तदैव
मेघना धावमानाऽऽगतवती ।) मेघना . पितः ! भ्रातरौ कुत्र गच्छतः । जयन्तः (सग्लानि) न, कुत्राऽपि न, अत्रैव स्तः । मेघना (वसन्तस्य वस्त्रमाकृष्य) पितृव्य ! मम भ्रातरौ कुत्र नयति ?
(रुदती) मम भ्रातरौ मुञ्चतु, मुञ्चतु । वसन्तः पुत्रि ! मम.......(रोदिति) जयन्तः (सबाष्पं) पुत्रि ! एतौ तयोर्मातृगृहं गच्छतः । मेघना किं तयोः पितरौ अन्यत्र वसतः ?
१
वसन
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org