________________
जयन्तः (रुदन्) आम् ।
मेघना
पितर् ! कथं भवान् रोदिति ?
दीपिका (सबाष्पं) पुत्रि ! भगवतामस्माकमुपरि कृपा नास्ति, यद् भाग्यवशाद् लब्धावपि बालकावन्यत्र गच्छतः ।
वसन्तः
मेघना
जयन्तः
वसन्तः (गृहं प्रविश्य, सानन्दं धावमानः) पितर् ! पितर् !... मनमोहनः किम् ? किम् ?
वसन्तः पश्यतु, पश्यतु । (सहर्षम् ) अद्य भगवता महानुपकारः कृतः ।
(मनमोहनस्तौ गृहीत्वा चुम्बति, आलिङ्गति च । सहसैवाऽश्रुबिन्दुः पतति । पश्चाद् वसन्तस्तौ बालकौ नीत्वा सहर्षं प्रसुप्तायास्तिलकाया द्वयोः पार्श्वयोर्मुञ्चति ।)
(मेघनामालिङ्ग्य) पुत्रि ! त्वमपि मया सहाऽऽगच्छ ।
(रुदती) न, न । मम भ्रातरौ मुञ्चतु ।
(मेघनामालिङ्ग्य, सबाष्पं) मित्र ! यथावसरं तौ नीत्वाऽत्राऽऽगमनीयं त्वया ।
(वसन्तस्तौ नीत्वा गच्छति । तदा जयन्तो दीपिका च रोदितः, मेघना तु 'भ्रात:, भ्रातर्' इत्युच्चैराराटिं कुर्वन्ती रोदिति । )
तिलका (मृदुस्पर्शमनुभूय) किम् ? एतत् किम् ? वसन्त ! प्रिय ! वसन्तः (सानन्दं) किम् ?
तिलका (बालकौ दृष्ट्वा ) कस्यैतौ ?
वसन्तः (सहर्ष) तव पुत्रौ !
तिलका (साश्चर्यं ) किं... किं... मम पुत्रौ ! कथम् ?
वसन्तः भगवता दत्तौ ।
तिलका (सबाष्पं) किं सत्यमेतद् ? (तौ चुम्बति, पुनः पुनश्चुम्बति, आलिङ्गति च । क्षणं हस्तं पादं नेत्रं वदनं कर्णं च निरीक्षते चुम्बति च तदा सहसैव हर्षावेशान्नयनाभ्यामश्रुधारा प्रवहति ।)
प्रिये ! तिलके! म...म...
वसन्तः
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org