________________
कथा प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् ॥
मुनिकल्याणकीर्तिविजयः
अस्ति किल शतशो धनदैः सहस्रशः पारिजातैर्लक्षशश्चोच्चैः श्रवोभिरपहस्तितसुरपुरं काम्पील्यपुरं नाम पुरवरमत्र भारते । जनास्त्वत्रत्या वैदग्ध्येन विबुधा अपि सुचरितैरतिविबुधाः । तथा रूप - लावण्य- -सौन्दर्यादिभिरप्सरस्तुल्या अपीहत्या योषितः शील- लज्जादिभिर्गुणैरत्यप्सरसः ।
अथाऽत्र नगरे वसन्तदेवो नाम वणिक्पुत्रो निवसति स्म । स सर्वास्वपि कलासु प्रवीणोऽपि तदुपरिष्टाद् धर्मकलायामपि निपुणो निरतश्चाऽऽसीत् । समासादितनवयौवनोऽसौ कदाचिदचिन्तयत् 'पित्राऽर्जिता लक्ष्मीहि भगिनीतुल्या भवति । कथं सोपभुज्यते ? मया तु स्वयमेव देशान्तरान् गत्वा प्रभूतं धनमुपार्जनीयं, तेन चैहिक-पारलौकिककार्याणि कृत्वा कुन्दावदातं यशोऽपि समुपलब्धव्यम्' इति ।
अतः पितुः किञ्चिन्मूलधनमुपादाय स जयन्तीपुर्यां ययौ । तत्र च वणिक्कलया वाक्कौशलेन च स प्रभूतं धनमुपार्जयत् । प्रथमप्रयले एव महान्तं लाभं प्राप्याऽतीव सन्तुष्टोऽसौ 'पुनरपि धनेनाऽनेन व्यवसायं करिष्यामीति विचिन्त्य तत्रैव नगर्यां पुनरपि व्यवहारमारभत । एवं च व्यवहारादि कुर्वता तत्र पुर्यां केचन वणिक्पुत्रास्तस्य मैत्रीभावमुपागताः ।
अथाऽन्यदैतेषामेव मित्राणामनुरोधतः सोऽष्टमीचन्द्रोत्सवे रतिनन्दननामोद्यानमगच्छत् । तत्र च बहवो नागरा नागरीयुता यदृच्छया विहरन्त आसन् । अयमपि च ससुहृत् सनर्मालापं च इतस्ततो भ्राम्यन्नेकस्मिन् लतामण्डपे सखीभिः सह खेलन्तीं कन्यामेकां दृष्ट्वान् । तस्याः सौन्दर्यं लवणिमानं मौग्ध्यं च दृष्ट्वाऽदेवोऽपि वसन्तदेवो देव इवाऽनिमिषनयनोऽभवत् । सहसा च तस्या अपि लोचनगोचरोऽयमभवत् । तस्या अपि दृष्टिर्वसन्तदेवसाक्षात्कारेण स्निग्धाऽभवत् ।
तदा वसन्तदेवः स्वमित्रं प्रियङ्करं पृष्टवान् 'केयं युवति: ? कस्य वा
सुतेयम् ?'
Jain Education International
तेनाऽप्युक्तं 'एषा तु केसरा नाम, पञ्चनन्दिश्रेष्ठिनो दुहिताऽस्ति ।
५६
For Private & Personal Use Only
www.jainelibrary.org