________________
कृपानाथः सोम ! गृहमुपावर्तितुं त्वरा वर्तते किम् ? न तावत् । किमर्थं पृच्छसि ?
सोमः
कृपानाथः अद्य कन्यायाः कृते विद्यालयपरिधानानि क्रेतव्यानि । अत एव किञ्चिद् विलम्बेनाऽऽसादयिष्यावः । परन्त्वलं चिन्तया । त्वामहं गृहं यावत् प्रापयिष्यामि ।
युक्तं युक्तम् । न काऽपि चिन्ता कार्या । परिधानापणमेव प्रथमं
गच्छावः ।
कृपानाय : (सोमं प्रति)
सोमः
सोमः
सोमः
सोम ! कथं मौन भजसे ? नाऽयं तव स्वभावः । अस्ति कश्चिद् विशेष: ?
कृपानाथः मुञ्च तावदिमां कथाम् । एतत्सर्वं घटते एव । न केवलं भारतेऽपि तु निखिलेऽपि संसारे । उदरपूर्त्यर्थं किं न कुरुते जनः ? दारिद्र्यं सर्वं कारयति ।
किं कथयानि मित्र ! अद्य कार्यालयमागच्छता मया विचित्रमेव दृश्यं दृष्टम् । ततः प्रभृत्येवोन्मनस्कोऽस्मि जातः । कार्यालयेऽपि किञ्चित्कर्तुं नाऽशकम् । त्वामपि श्रावयामि तां विचित्रां घटनाम् ।
(इति यथाघटितं श्रावयति)
Jain Education International
(अकस्मादेव राजमार्गं निकषा जनसम्मर्दं सम्प्रेक्ष्य)
कृपानाथ ! मित्र ! क्षणं यावत्तिष्ठ । कीदृशोऽयं जनसम्मर्दः ? मन्ये सैव महिला अत्राऽपि वर्तते । तदेव नाटकमत्राऽपि प्रवर्तते । (यानं क्वचिदेकान्ते संस्थाप्योभौ समीपं गच्छतः । तामेव महिलां मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमानामवलोक्य हतप्रभावुभौ
भवत:)
महिला- (करुणं विलपन्ती)
हा दैव ! भगवन् विश्वनाथ ! श्रुतम्मया यत् त्रिलोकतोऽपि पृथग् वर्तमानेयं काशी । नाऽत्र संसारनियमाः प्रचलन्ति । तथाऽप्यहमत्राऽवसीदामि । भ्रातरः ! मृतपत्युरन्त्येष्टिनिमित्तं कं याचे ?
९१
For Private & Personal Use Only
www.jainelibrary.org