________________
र
अणसूआ वअस्स ! बहुबल्लहा राआणो सुणीअन्ति । जह णो पिअसही बन्धु-
अणसोअणिज्जा ण होइ तह णिव्वाहेहि । दुष्यन्तः भद्रे ! किं बहुना ?
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वी सखी च युवयोरियम् ।। O, उभे सहीओ णिव्वुदे म्ह । न पिअंवदा अणसूए ! जह एसो इदो दिण्णदिट्ठी उत्सुओ मिअपोदओ मादरं
अण्णेसदि। एहि, संजोएम णं । [इत्युभे प्रस्थिते ।] सउन्दला हला, असरणा म्हि । अण्णदरा वो आअच्छदु । उभे सहीओ पुहवीए जो सरणं सो तुह समीवे वट्टइ । [इति निष्क्रान्ते।] सउन्दला कहं गदाओ एव्व ? [गन्तुमिच्छति ।] दुष्यन्तः अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
किं शीतलैः क्लमविनोदिभिराद्रवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ।।
[इति बलात्तां निवर्तयति । - सउन्दला
पोरव ! रक्ख विणअं । मअणसंतत्तावि ण हु अत्तणो पहवामि भीरु ! अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नाऽत्र दोषं ग्रहीष्यति कुलपतिः । अपि चगान्धर्वेण विवाहेन बढ्यो राजकन्यकाः ।
श्रूयन्ते परिणीतास्तां पितृभिश्चाऽभिनन्दिताः ।। सउन्दला मुञ्च दाव मं । भूओ वि सहीजणं अणुमाणइस्सं । दुष्यन्तः भवतु । मोक्ष्यामि । सउन्दला कदा ? दुष्यन्तः अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।
दुष्यन्तः
१०१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org