________________
मङ्गलकुम्भादीनि वस्तूनि तान्यपि कस्यचिद् भावमङ्गलस्य कारणत्वान्नो आगमतस्तद्व्यतिरिक्तं द्रव्यमङ्गलम् । यत उक्तं
"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
तद् द्रव्यमित्यादि ।
इह ज्ञशरीर - भव्यशरीरयोस्त्वागमाभावमाश्रित्य द्रव्यमङ्गलत्वं तद्व्यरिक्ते तु क्रियाभावापेक्षया द्रव्यमङ्गलत्वमिति विशेषः ।
समवसितं द्रव्यमङ्गलम् । अधुना भावमङ्गलप्रस्तावः । तत्र प्रथमं भावस्य स्वरूपं व्याख्यायते भवनं विवक्षितरूपेण परिणमनं - भावः । यथेन्दनादिभिरर्थादैश्वर्यानुभवनादिभिर्युक्त एव भावेनेन्द्रः, ज्वलनादिक्रियायुक्त एव भावज्वलनः । तथा चोक्तम् -
भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥
भवति ।
Jain Education International
-
अथ च भावमङ्गलमपि द्विधा । आगमत नोआगमतश्च ।
तत्र च मङ्गलपदार्थज्ञाने उपयुक्तस्तदेकचित्तो जीवो भावमङ्गलमागमतो
अत्राऽऽह प्रेरक: - ननु मङ्गलपदार्थज्ञानोपयोग एव भावमङ्गलं स्यात्, तदुपयुक्तो वक्ता तु कथं भावमङ्गलं स्यात् ? अग्निज्ञाने उपयुक्तो माणवको स्वयं नाऽग्निर्भवेत्, अन्यथा दाह - पाककरणाद्यापत्तिः ।
-
घटः,
तदाऽऽहाऽऽचार्यः - उपयोग - ज्ञान- संवेदन- प्रत्ययाद्याः सर्वेऽपि तुल्यार्थका एव । यदाहुः 'अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, यथा पृथुबुध्नोदकारोऽर्थोऽपि तद्वाचकमभिधानमपि, तज्ज्ञानरूपः प्रत्ययोऽपि च घट इति व्यपदिश्यते ।" कथयन्त्यपि च लोका:, यथा- किमिदमस्ति ? किमयं वक्ति ? घट:, किमस्य चित्ते पोस्फुरीति - घटः, इत्यादि । एवं च घट इति ज्ञानं तदव्यतिरिक्तश्च ज्ञातेत्युभावपि ज्ञानस्वरूपावेव । यदि हि ज्ञानज्ञानिनोरभेदो न स्वीक्रियते तदा तु ज्ञानसत्त्वेऽपि ज्ञानी वस्तुसमूहोपलब्धि कर्तुमशक्त एव, तस्य ज्ञानमयत्वाभावात्, दीपहस्तोऽन्ध इव, ज्ञानरहितपुरुषवद्वा ।
न च ज्ञानं निराकारमेव, ततश्च ज्ञानिनस्ततो भेदेऽपि उपलम्भः स्यादेवेति
-
44
२४
For Private & Personal Use Only
www.jainelibrary.org