________________
" मन्दा (सक्रोधं) 'दोषदर्शनं' तु मनुष्यस्वभावोऽस्ति । स स्वदृष्ट्यानुरूपमेव
चिन्तयति, तदनुरूपमेवाऽन्यानपि पश्यति । (सोपहासम्) अपुत्रवती स्त्री जनेषु 'वन्ध्या' इति ख्याति प्राप्नोति । समाजे शुभप्रसङ्गे च तादृश्याः
स्त्रियो मुखदर्शनमप्यशुभमपशकुनं च विभाव्यते । किं.... 59 तिलका (रुदती) मैवं वादीः.....
(पटीक्षेपः)
(दृश्यं - २) (दीनवदना ललाटोपरि हस्तं संस्थाप्याऽऽसन्दे तिलकाऽऽसीना ।) वसन्तः (गृहे प्रविशन्) प्रियतमे ! प्रियतमे ! कुत्र गतवती ? तिलका हुँ, हुँ। वसन्तः कथमद्य मे स्वागतार्थं सन्मुखं नाऽऽगतवती ? (हस्तं गृहीत्वा) प्रिये ! किं जातम् ? कथमुदासीनाऽसि ?
(तिलका तस्याऽङ्के वदनं संस्थाप्य रोदिति ।) वसन्तः (सखेदं) किं जातम् ? किं मे गृहे दुःखमस्ति ? किं केनाऽपि एy
तेऽवमाननं कृतम् ? किं गृहेऽमङ्गलं घटितम् ? तिलका (रुदती) न, न किमपि जातम् । तव सांनिध्ये केवलं सुखमेवाऽनुभूयते ।
_(मुखमधः कृत्वा) केवलं.... वसन्तः केवलं किम् ? वद, वद । तिलका पुत्रचि...न्ता... (उच्चै रोदिति ।) वसन्तः (सबाष्पं) प्रिये । यथा त्वं पीड्यसे तथैवाऽहमपि पीड्ये ।
पुत्रप्राप्त्यर्थमद्यावधि किं किं न कृतम् ? किन्तु.... तिलका. एतन्नाऽस्मदधीनम्, इति जानाम्येव । किन्त्वद्य... (तमालिङ्ग्य पुन
'रोदिति ।) वसन्तः (तस्याः केशपाशं हस्तेन विमय) सत्यं वद । अद्य किमप्यघटितं
घटितमेव, अन्यथा त्वमेतादृशमाचरणं न कुर्याः । अष्टादशवर्षेष्वपि त्वयैवं न कृतम् । अतः प्रिये ! सत्यं वद ।
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org