SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमीक्षा 'नारीकथामृतम्' 2. E (समीक्षकः- डॉ. रूपनारायणपाण्डेयः, एस् II/330 राज्यशिक्षासंस्थानकालोनी एलनगञ्जः, प्रयागः, उ.प्र. २११००२) रचयिता तथा प्रकाशक: डॉ. आचार्यरामकिशोरमिश्रः, पूर्व उपाचार्यः संस्कृतविभागाध्यक्षश्च, महामना-मालवीय-महाविद्यालयः, खेकड़ा । आवास:- २९५/१४, पट्टीरामपुरम्, खेकड़ा - २०११०१ (बागपत), उ.प्र. । पृ.सं. ११२ । प्रथमसंस्करणम्-२००५ । मूल्यम्-१५०-०० विराजन्ते देववाण्यां कादम्बरी-वासवदत्ताप्रभृतयः कथाः, यासु नारीचरितस्य प्राधान्यं वर्तते । वर्तमानकालेऽपि काश्चन कथाः कथाकारैर्नारीचरितमाश्रित्य प्रणीताः । तामेव कथापरम्परां विवर्धयताऽऽचार्यरामकिशोरमिश्रेण 'नारीकथामृतम्' नाम पुस्तकं प्राणायि । अस्मिन् पुस्तके पञ्चदशकथा विलसन्ति - भामती, सावित्री, यमुना, गङ्गा, रत्नावलिः, यशोधरा, विद्योत्तमा, शकुन्तला, शची, सुकन्या, सत्यवती, ममता, सूर्या, विश्ववारा, अपाला च । अत्र विद्योत्तमां शकुन्तलां च विहाय सर्वाः कथा नितरां संक्षिप्ताः परिचयात्मिकाश्च । भामती पञ्चाननवाचस्पतिमिश्रस्य त्यागशीला धर्मपत्नी, यन्नाम्ना वेदान्तग्रन्थो भामती प्रणीतः । सावित्री सत्यवतः पत्नी, यया यमात् स्वपतिविमोचितः । यमुना गङ्गा चेति नदीद्वयम् । 'रत्नावलिः' दीनबन्धुपाठकस्य पुत्री, गोस्वामितुलसीदासस्य च पत्नी, सा स्वपति गृहाद निःसारयति, निर्गतः स रामभक्तौ तल्लीनो भवति । यशोधरा गौतमबुद्धस्य पत्नी भिक्षुकरूपेण समागताय बुद्धाय स्वपुत्रं समर्पयति । 'विद्योत्तमायाम्' कालिदासः काशीनरेशसुतां विद्योत्तमां शास्त्रार्थे पराजित्य परिणयति । सौभाग्यनिशायां विद्योत्तमा तं मूर्ख मत्वा प्रासादान्निर्गमयति । विद्याभ्यासं विधाय, कविश्च भूत्वास विक्रमादित्यस्य सभायां विराजते । विद्योत्तमा तत्र गत्वा न्याययाचनां विदधाति । कालिदासस्तां ★ 'भामती' इति ग्रन्थो वेदान्तविषयकोऽस्ति, न तु गणितविषयकः । अत्र कथाकृद भ्रान्तोऽस्ति । ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy