________________
बाबा हरवासि
मुनिधर्मकीर्तिविजयः
इस्मरणम् )
.........................................
नवसारीनगरे 'मद्रेसा'नाम शालाऽऽसीत् । तत्र यदाऽहं पञ्चमकक्ष्यायां पठन्नासं तदा शालायाः प्रांशुपालः स्वयमेवाऽऽङ्ग्लविषयं पाठयति स्म । स यथा स्वभावेन कठोर आसीत्तथैव बाह्यस्वरूपेणाऽपि कठोरो दृश्यते स्म । स आपाततो बक (गूर्जरभाषायां 'बगलो') इव प्रतिभाति स्म । ततस्सर्वैविद्यार्थिभिस्स प्रांशुपालो 'बगलो' इत्यपरनाम्नैवोपलक्ष्यते स्म । यद्यपि असौ प्रांशुपालो 'बगलो' इत्यपरनाम्ना क्रियमाणं स्वकीयमुपहासं कथञ्चिद् ज्ञातवानासीत्, तथाऽपि प्रमाणाभावात् स विद्यार्थिनो दण्डयितुं न शक्तवान् ।
एकदा कक्ष्यायां पाठयता तेनाऽहं पृष्टः- “Coat' इति शब्दस्य गूर्जरपर्यायः . कः ? प्रत्युत्तरमजानन्त्रहं तूष्णीं स्थितवान् । तदा समीपस्थितेन मित्रेणाऽस्फुटशब्दैः सूचितम्- 'डगलो' इति । मया 'बगलो' इति श्रुतं, ततो 'बगलो' इत्युक्तवानहम् । तच्छ्रुत्वैव 'स्वकीय उपहास एष' इति मन्यमानस्सोऽतीव कुपितो जातः । क्षणेनाऽविचार्यैव तेन रभसा मम कपोले पञ्चसप्ताश्चपेटिका दत्ताः । इतस्सर्वेऽपि विद्यार्थिन उच्चैरहसन् । ततो मुहुर्मे कपोले पञ्च चपेटिका दत्ताः । पश्चात् समीपस्थितानां बालकानामुपरि चपेटिकाप्रहारः प्रारब्धः । ततस्सर्वेऽपि विद्यार्थिनो हसन्तस्स्वासनादुत्थायेतस्ततोऽधावन् । सर्वत्र कोलाहलो जातः । एवं पञ्चदश क्षणा व्यतीताः, तथाऽपि कक्ष्यायां शान्तिर्नाऽभवत् । अन्ते यदा विखिन्नमनसा तेन प्रांशुपालेन विंशतिविद्यार्थिनः कक्ष्याया बहिनिष्कासितास्तदैव वर्गसमयः समाप्त: ततोऽतीव कोपेन मुहुर्मुहुर्मी पश्यन्नसौ वक्रदृष्ट्या कक्ष्याया बहिर्गच्छन्नासीत् तदैव सर्वेऽपि विद्यार्थिनो 'बगलो-बगलो' इत्युच्चैराराटि कुर्वन्तः परस्परं तालिका ददतश्च हसन्ति स्म । अहं तु कपोलस्योपरि पुनः पुनर्हस्तं प्रसारयन् तूष्णीं स्थितवान् ।
अद्याऽप्येतत्प्रसङ्गः स्मृतिपथमायाति तदा वारं वारं हसामि ।
......
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org