________________
नूतनः किं विवाहोऽवश्यं कर्तव्यः ? पुरातनः यदि दुःखमेवाऽभीष्टं तदाऽवश्यं
कर्तव्यः !!
-
आलापः किं भवान् सङ्गीतसाधनायां मम साहाय्यं कुर्याद् वा ? 2 प्रलापः अवश्यं भोः ! वदतु किं कर्तव्यम् ? आलापः 'पियानो' तथाऽन्यानि वादित्राणि गृहस्योपरितने तले ४
नेतव्यानि !
एकदा स्कूटीयानेन गच्छन्ती महिलैका चतुष्पथे ट्राफिक्नियमभङ्ग कृत्वाऽग्रे गतवती। ट्राफिक्-पुलिसाधिकारिणा मनजितसिंहाख्येन झटिति धावित्वाऽवरुद्धा सा, चालनादेशपत्रं (License) दर्शयितुं चाऽऽदिष्टा ।
तया स्वीयवनितास्यूताद् लघुरेक आदर्शो निष्कास्य तस्मै दत्तः । सोऽपि तं दृष्ट्वा कथितवान् - क्षम्यतां मान्ये ! किन्तु यदि प्रथमत एव भवत्या 'ट्राफिक्-पुलिसाधिकारिण्यह'-मित्युक्तमभविष्यत् तदा नाऽहं भवत्या अवरोधनमकरिष्यम् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org