SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ किङ्करः श्रेष्ठी (धावन्निवाऽऽगत्य) स्वामिन् ! स्वामिन् ! एतानि दश रूप्यकाणि ततोऽपवरकात् प्राप्तानि । किं भवत एतानि ? धन्यवादः, धन्यवादः ! अहमेतान्येव मृगयन्नासम् । भवतु, तव नीतिमत्तया प्रसन्नोऽस्मि। अत: पारितोषिकरूपेण त्वमेवैतानि स्वीकुरु । अन्यदा(सर्वत्र किञ्चिन्मृगयति किन्तु कुतोऽपि नोपलभते, अतः किङ्करमाहूय) भो ! रामदास ! मम शतं रूप्यकाणि कुत्राऽपि नष्टानि । किं त्वया दृष्टानि प्राप्तानि वा ? आम् स्वामिन् ! आम्, तानि मया प्राप्तानि । किन्तु मम नीतिमत्तायाः पारितोषिकरूपेण मयैव तानि स्वीकृतानि । श्रेष्ठी किङ्करः ॐ द्वौ वयस्यौ प्राणिसङ्ग्रहालयं द्रष्टुं गतौ । तत्र, एकत्र बृहत्कायपञ्जरस्य । पुरत उत्थाय वार्तालापं कुरुतः स्म । तदा पञ्जरमध्ये दृष्ट्वाएकः भो ! यद्येष व्याघ्रो वक्तुं समर्थः स्यात् तर्हि स किं वदेत् ? 4 अपरः अरे ! यद्येवं स्यात् तर्हि प्रथमं तु स एवमेव वदेद् यद् - 2 'मूर्ख ! नाऽहं व्याघ्रः किन्तु चित्रकः ! दग्धः अहं । भवतः सकाशाद् गालिमुपालम्भं वा श्रोतुं नाऽत्राऽऽगतो भोः । दुर्विदग्धः तर्हि भवान् तत्सर्वं श्रोतुं कुत्र गच्छति ? ९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy