________________
*
(३) क्वचित्प्रलीनम्
दृप्तः कदाचिदासं तृप्तः कदाचिदासम् चञ्चन्मनोभ्रमेऽस्मिन् कृत्यं वचित्प्रलीनम् ॥१॥
आकाशमपि मम स्यात्पातालमपि मम स्यात् । स्याद्वादकल्पनेऽस्मिन् हर्म्यं वचित्प्रलीनम् ॥२॥
कुचपुडि भवेदिहादौ गर्बा ततश्च जात्रा । . रङ्गस्य दुर्हठेऽस्मिन् नृत्यं वचित्प्रलीनम् ॥३॥
आम्रोऽयमिति ममोक्तिश्चिञ्चेयमिति तदोक्तिः । अस्मिन् मृषोक्तिदम्भे सत्यं वचित्प्रलीनम् ॥४॥
मत्तो भयं तवाऽभूत्त्वत्तो भयं ममाऽभूत् । नूनं मिथो भयेऽस्मिन् सख्यं क्वचित्प्रलीनम् ॥५॥
तीर्थाटनं करिष्ये दानादिकं करिष्ये । अस्मिन् बृहद्भविष्ये भव्यं वचित्प्रलीनम् ॥६॥
भासे तवाऽनुरागो मम चाऽपि कालिदासे । प्रतियोगिरागबन्धे काव्यं क्वचित्प्रलीनम् ॥७॥
ह्यो वामनेऽद्य रामे श्वश्वाऽपि वासुदेवे । क्षणभङ्गुराग्रहेऽस्मिन् धैर्यं क्वचित्प्रलीनम् ॥८॥
दृष्ट्वा नितान्तदैन्यं भैक्ष्यञ्च बालकानाम् । पठतोऽभिराजिसूनोर्गेयं चित्प्रलीनम् ॥९॥
म
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org