________________ "लण्डन्प्रदेशस्य विद्यालये पञ्चवर्षीयाणां बालकानां वर्गे शिक्षिकोक्तवती - यः कोऽपि मह्यं 'विश्वस्य सर्वश्रेष्ठो महापुरुषः कः ?' इति कथयिष्यति तस्मै अहं 10 पाउण्ड-राशिं पारितोषिकरूपेण दास्यामि ! आइरिश्-विद्यार्थी हस्तमुन्नीयोक्तवान् - सन्त पेट्रिकः। शिक्षिका - पेडी ! नैष यथार्थः प्रत्युत्तरः। एकोटिश-विद्यार्थी - सन्त एण्डुः / शिक्षिका- हेमिश ! तवाऽपि प्रत्युत्तरो न समीचीनः। अन्ततो गत्वा कश्चिद् हिन्दुविद्यार्थी उत्थितः - जीसस क्राईस्ट ! शिक्षिका - सम्पूर्ण सत्यम् / किन्तु नलिन ! त्वं तु हिन्दुः, कथं त्वया... ? नलिनः - सत्यं मान्ये ! मम मनसि यथार्थः प्रत्युत्तरस्तु "भगवान् श्रीकृष्ण' इत्येवाऽऽसीत् / किन्तु भवती जानात्येव Business is a business !" Jain Education International For Private & Personal Use Only www.janehbrary.com