SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्राणाः समस्तजगतो हि समीरणो यः, वातः स गन्धवह आशुग आशुगन्ता । यं स्पर्शनं श्वसनदेवमहं स्मरामि, वायुर्महान् स इति तं शिरसा नमामि ॥५॥ WLA इन्दु विधुं शशधरं मृगलाञ्छनं च, सोमं कलानिधिमपांपतिजं हिमांशुम् । शीतांशुदेवमधुना यमहं भजामि, चन्द्रो महान् स इति तं शिरसा नमामि ॥६॥ शुक्रं कृशानुमनलं दहनं च वह्नि, वैश्वानरं हुतभुजं जगता प्रपूज्यम् । यं वीतिहोत्रमधुना हृदये स्मरामि, अग्निर्महान् स इति तं शिरसा नमामि ॥७॥ वर्षेषु यो विभजते समयं स्वशक्त्या मासेषु पक्षदिवसेषु पलेषु नित्यम् । होरासु तं च विदधाति सदा विभक्तं, कालो महान् स इति तं शिरसा नमामि ॥८॥ wी यः कथ्यते जलनिधिर्जलधिः सरस्वान्, कल्लोलवानमृतवाञ्जलवानुदन्वान् । _ विष्णुप्रिया हि कमला जनिताऽत्र येन, सिन्धुर्महान् स इति तं शिरसा नमामि ॥९॥ tra Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521017
Book TitleNandanvan Kalpataru 2006 00 SrNo 17
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy