Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 21
________________ माविष्कारस्य जननी समभूदथवा नति गवेषणाया विषयः । इदमपि सुसम्भवं यच्छन्दोभेदानामाविष्कारानन्तरं तेषां तत्तद्रसानुकूलत्वमनुभूतं स्यात्कविभिः । किन्तु शनैः शनैश्छन्दसां जातयस्तावत्प्रसृता यत्प्रस्तारभेदेन छन्दसामानन्त्यमुद्घोषितं छन्दोविद्भिः । संस्कृते वर्णानां प्रस्तारेणानन्तानां छन्दसामुद्भावनाऽजायत । मात्रिकच्छन्दसामुद्भवस्तु प्राकृतभाषाभ्योऽभूदिति सम्भवः। गाथाभेदेभ्य आर्याच्छन्दस उद्गमोऽभूत् । दण्डकेष्वपि कतिपये मात्राणामाधारेणव प्राचलन् । अपभ्रंशभाषाभ्यो, ब्रजभाषायाश्चोद्भूतान्यनेकानि छन्दांसि शनैः शनैः संस्कृते समायातानि । शङ्कराचार्यस्य 'चर्पटपञ्जरिका'यां 'अङ्ग गलितं पलितं मुंडम्, दशनविहीनं जाते तुण्डम्' इत्यादिमात्रिकच्छन्दसामुपयोगोऽस्ति । हिन्दी-साहित्यस्य 'रीतिकाले' यदा ब्रजभाषाकविता समग्रेऽपि भारते माधुर्यादिगुणः प्रचारमभजत्, तच्छन्दांसि च घनाक्षरी-चौपाई-दोहा-सोरठादीनि समभूवन् सर्वत: प्रप्तिद्धानि; कतिपयैः संस्कृतकविभिरपि छन्दःस्वमीषु काव्यलेखनप्रवृत्तिः प्रदर्शिता। मन्ये कविकलानिधिः श्रीकृष्णभट्टो यो हि संस्कृतप्राकृत-व्रजभाषादिषु मूर्धन्यः कविरासीत्, परम्परायामस्यां प्रामुख्येन भागमगृह्णात् । कविकलानिधि-श्रीकृष्णभट्टः' कविकलानिधिः श्रीकृष्णभट्टो गौतमगोत्रीयस्तैलङ्गवंशजो 'देवर्षि' इत्यवटङ्कधरोऽभूत् । एतत्पूर्वजा आन्ध्रप्रदेशाद् वाराणसी, वाराणसीत: प्रयागं, प्रयागाद् बान्धवनगरं, ततो बूंदीनगरं चाऽऽगच्छन्। बुन्दीपतिना श्रीबुधसिंहेन भूरि सम्मानित: श्रीकृष्णभट्टस्तद्राजसभां बहुकालं यावदलंचकार । ततो विद्वद्गुणग्राहिणा महाराजाधिराजेन श्रीजयसिंहेनाम्बेरमानायितः । बुन्दीपतेराज्ञयाऽनेन व्रजभाषायां 'शृंगाररसमाधुरी'त्याख्यो ग्रन्थो व्यलेखि । प्राम्बे रनरेशाद् बहुमानं सौहार्द च लब्धवताऽनेन न केवलं तदाज्ञया बहवो ग्रन्था एव लिखिता:, किन्तु तेनानुष्ठीयमानेऽश्वमेधयागे आत्त्विज्यमप्याचरितम् । अयं हि तत्र ऋत्विक्षट्केऽन्यतमोऽभूद्याजकः। महाराजजयसिंहाज्ञयाऽनेन व्रजभाषायाम् 'अलङ्कारकलानिधिः', संस्कृते 'वृत्तमुक्तावली', संस्कृतगीतेषु 'रामरास:' अथवा 'रामगीतम्', उपनिषदां च प्राचीनहिन्दीभाषायामनुवादा लिखिताः। महाराजजयसिंहस्य स्वर्गाधिरोहणानन्तरं महाराजमीश्वरोसिंहमप्ययं कञ्चित्कालं सेवितवान् । तत्प्रीतये 'ईश्वरविलास महाकाव्यं' नामैतिहासिकं काव्यमयमलेखीत् । सुन्दरीस्तवराज-वेदान्तपञ्चविंशतिप्रभृतयो ग्रन्था अप्यनेन लिखिताः । , श्रीकृष्णभट्टस्य विस्तृतं जीवनचरित्र जिज्ञासुभिः राजस्थानपुरातत्त्वान्वेषणमन्दिरात् प्रकाशितस्य 'ईश्वरविलास' महाकाव्यस्य (१९५८) भूमिकायां (पृ. ४१) द्रष्टव्यम् ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120