Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
३४ ]
वृत्तमुक्तावल्याम्
सकलयामसुखदवामतरललामलीलना
जयसि नाम हृदभिरामरतिनिकामशीलना ॥ ५८ ॥
अथ जनहरणं नामच्छन्दः
यस्य चरणे त्रिंशदमिश्रिताः कला अन्ते द्वे मिश्रिते कले, दशभिः, द्विरष्टभिः ततः षड्भिश्च यतिः, तज्जनहरणम् । अत्र गुर्वन्तरप्रवेशे त्रिभङ्गोतो भेदो न स्यादिति वदन्ति । चरणकला द्वात्रिंशत् ।
यथा-अनवरतभजनपरसुरनरमुनिवरहृदयसदनचरभयहरणम् ।
परिलसितविमलतरनरवर किरणभरसकल तुहिनकरजयकरणम् । ततसुरपतिभवविधिकलितम मृतनिधिभृशभवजल निधिकृततरणम् मम मनसि करुणयुतमयतु निगमनुतमिह दशरथसुत तव चरणम् ५६ अथ मदनदीपनच्छन्दः
यन्मदनगृहमिति प्राचीनैर्व्यवहृतम् । सगणान्ताष्टकलेन वर्द्धिता पद्मावत्येव मदनदीपनं नाम ।
यथा-वन चन्दकिर्षणमलिकुलकर्षणमतिसुखवर्षणगुणशरणं सौभगधरणम् पिककीरचकोरकहरिण किशोरक हृत्सञ्चोरकरुचिकरणं मानसहरणम् । शुककोकमरालकपन्नगबालकचयसञ्चालक सुखभरणं भुवनाभरणम् वपुरिदमुद्भासय मामिह दासय मानमुदासय धृतिदरणं परुषाचरणम्
।। ६० ।।
प्रथ भुल्लनच्छन्दः
यस्य चरणे सप्त पञ्चकलास्ततो द्वे कले तज् भुल्लनं नाम । यद्यपि पञ्चकलभेदा श्रविशेषेणैव गृहीतास्तथापि प्रतिगणं द्वितीया कला परया कलया मिश्रितोद्वे जिकेत्यनुभवसाक्षिकम् ।
यथा - शेषपतगेशविबुधेश भुवनेश भूतेशस विशेष सुनिदेशधरणी
कन्दलितसुन्दरानन्दमकरन्दरसमज्जनमिलिन्दभवसिन्धुतरणी । ज्ञानमण्डनपरा' कर्मखण्डनधरा शमनदण्डनपराभूतिहरणी नित्यमिह वक्ति मुनिवृन्दमनुरक्तिमज्जयति हरिभक्तिरासक्ति
करणी ॥ ६१
१. स्वभावकुटिला यतिः गतिर्यस्य तत् ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120