Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
७० ]
प्रसृमररुचि विसर्पत्सहस्रातिसख्यांशुमालिन् महाकाशमध्यावकाशे ग्रहपरिवृढ विवस्वन् सदा मे शुभं देहि भानो समुद्यत्कृपावारिराशे ॥ २८७॥ अथ नगणद्वयानन्तरं मगणं निधाय यथेच्छं यगणाश्चेद्विधीयन्ते तदैवंविधचतुरचरणनिबद्धो मेघमालाख्यो दण्डकः ।
वृत्तमुक्तावल्याम्
यथा
नवजलधरजालश्रीरसौ नन्दबालः सदाऽऽलापशाली किशोराकृतिः सुन्दरेन्दीवराक्षः विषमविरहबाधाहृत् समुद्भूतराधारता
सक्तयगाधातिकेलीकलाधारिचुञ्चुकटाक्षः ।
नवमधुरिमभाजा श्रीलगोपीसमाजामितानन्दकन्देन नन्देक्षणामन्दवात्सल्य देन स्मरतजयिभासा स धृतो येन गोवर्द्धनाद्रिः कराग्रे गवां पालकः पातु लम्बालकस्त्वाम् ॥ अथ नगणद्वयानन्तरं यथेच्छं यगणाश्चेद्विधीयन्ते तदैवंविधचतुश्चरणनिबद्ध'रचण्डवेगाभिधानो दण्डकः ।
यथा
जय जय जय विवस्वत्कुलालङ्क्रिया नीलरत्नप्रभानिर्जितप्रावृषेण्याभ्रकान्ते पदनखरुचिचमत्कारिचन्द्रावली चन्द्रिकौघप्रमृष्टस्वकीयान्तरध्वान्ततान्ते । अभिरणमहि समस्त त्रिलोकीमनः कण्टकोद्यद्दशग्रीवसम्पात सञ्जातशान्ते परमपुरुष सदासच्चिदानन्द पूर्णावतार प्रभो राम पायात्तमां नाम माऽन्ते ।। २८८ ॥
अस्यैवादौ लघुपञ्चकं चेद्विधीयते तदा सिंहविक्रान्तनामा दण्डकः ।
यथा
जय जयसि विवस्वत्कुलालङ्क्रियानीलरत्नप्रभानिर्जितप्रावृषेण्याभ्र कान्ते चरणनखचमत्कारिचन्द्रावलीचन्द्रिकौघप्रचारोद्धतस्वान्तगध्वान्ततान्ते ।
अधिधरणि समस्त त्रिलोकीमनः कण्टकोद्यद्दशग्रीवसम्पातसञ्जातशान्ते परमपुरुष सदासच्चिदानन्द पूर्णावतार प्रभो राम पायात्तमां नाम माऽन्ते ।। २८६ ॥
अथ लघुर्गुरु घुर्गुरुरित्येवं क्रमेण प्रतिचरणं वर्णाश्चेन्निधीयन्ते तदाऽनङ्गशेखरो नाम दण्डकः ।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120