Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
७४ ]
वृत्तमुक्तावल्याम् एवमेवान्येऽपि दण्डकभेदा यथालक्षणं स्वमत्योहनीयाः। पूर्वं नगणस्तत एको गुरुस्ततो रगण इत्येवं सप्ताक्षरो गणः स्वेच्छया सप्ताष्टनवादिक्रमेण मुहुनिधीयते तदैवंविधचतुश्चरणशाली विच्छित्तिविशेषवान् मकरालयो नाम दण्डकः । स यथासकलवित्ताभिराम कमलानित्यधाम प्रबलापत्प्रशाममुदयत्प्रेमकाम सततोन्मत्तवाममतुलोद्दामधाम कलिताशेषकामविबुधेन्द्रादिधाम जय विख्यातनाम जनचेतोभिराममतिफुल्लत्तमालतरुहिन्तालजालकलगुजालिमालघनकुञ्जातिशालि विकचाम्भोजवृन्दपरिगुञ्जन्मिलिन्दबहुलानन्दकन्द कलवल्लीलताविविधमल्लीशताविरतसङ्गोद्धतानिलगताशेषतापकलकोकिलकलापपरपुष्टप्रलापयुतमहोदुरापतरमत्युअपापचयविच्छेददक्षमतिपुण्यैः समक्षमखिलक्षेमरक्षहृदयक्षोभदक्षमवनीदुःखभक्षमव - नीयात्तपक्षमखिलक्ष्माविलक्षणमथोदञ्चदक्षमखिलोद्धारकारिसुमनःस्वान्तहारि हृदि मुहयन्नगारिविचरत्पन्नगारिकृतसंसारपारमखिलक्षोणिसारमुदितातुल्यतारपरपूर्णावतारजनमोक्षप्रकारपशुपालीविहारभरनित्यप्रसारगतभूयोविकारमतिलावण्यभार . धृतपुण्यप्रसारमनुजानामगारमुदितानन्दधारमथ शृङ्गारहारलतिकालग्नतारतरनिध्वानकामदत्तालिभारकपटोद्भूतभारनृपवैदूर्यहारमरुणापत्यपातबहुसंघर्षजाततुहिनस्पर्शवातसततस्पर्शजातहरिसम्भोगजातनिखिलस्वेदपातमथवर्षाविनोल्लसितहर्षा - वलीविवशतर्षाकुलप्रमदनृत्यन्मयूरनिनदासक्तदूरत रविश्रामशूरतरुणीकर्णपूरनधिकानन्दघूर्णदलिपुञ्जप्रपूर्णमनिलस्पर्शतूर्णततपारागचूर्णभृतपुत्रादिहंसकुलसङ्गीतकंसहरकीर्तिप्रशंसनसमुद्यच्चिदं(श) भृतभूयोरिरंसपशुपालावतंसमतिसौगन्ध्यपुष्टलवलिश्रेरिणजुष्टनवमाकन्दतुष्टपरपुष्टालिघुष्टरुचिरं नित्यरुष्टतरपञ्चेषुदुष्टहृदयाशेषलोकमनिशोन्नादिकोककृतदुःखप्रमोकहृदयाशेषशोकभरसंहारहेतुरथ संसारसेतुररविन्दावलीमुखितवृन्दारकान्तरमिलिन्दालयं मनुजवृन्दाऽवनं जयति वृन्दावनम् । ____ जयति तत्रालिवृन्दविहितत्राणपुष्पफलपत्रालयेऽखिलखलत्रासनो निजगुणत्राकृतव्रजजनत्रायको विहितसत्रावलिद्विजगणत्राऽबलाहृतसुपत्रादिमिश्रसदमत्रालिसम्भरितभूयःकरम्भभुजिमादीपलम्भउदयदर्पजम्भरिपुनिःशेषदम्भमदसंरम्भहारिभुजगेशानुकारि वरशैलेन्द्रहारिबहुकामाभिसारि तरुणीचित्तहारि परमानन्दकारि भुजविक्रान्तिवारितमहाकालवारिदसमूहप्रसारिमुशलाकारवारिभरधारासहस्रभयभाराव • सन्ननिरगारात्मलोककृतहारावहृत्पशुपदारावलन्नयनताराभ उल्लसितहारावली ललिततारावली वलितधाराधरप्रतिममाराशुगोद्धरविहारार्थसङ्गतरमाराधितोपचितवक्षा हृताखिलविपक्षान्वयो विबुधपक्षावनप्रबलकक्षाप्रबन्धसुविदक्षाशयः स्वजनरक्षाकरः कलितयक्षाभिभूतिलसदक्षामविक्रमवलक्षाकृतिजितकुलक्षाढयरोषनिवहक्षारचित्तबहुरक्षाभवत्कलिमलक्षालनामृतसकक्षाद्भुतस्फुरददन्तालयः ।
पर.

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120