Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 114
________________ तृतीयो गुम्फः [ ७५ दिगन्तागताघबकहन्ताधिमेदिनि समन्तादुरत्रिगुणसन्तानभत्कुवनसन्तापहृतत्स्वजनसन्तारणोल्लसदनन्तारशब्दितमिदंतास्वरूपमधिगन्ताखिलेश्वरनियन्ता प्रमोदवनरन्ता स्वकीयविपदन्ताभिकः श्रुतदुरन्तागमः सदनुमन्ता स्वधर्मशततन्तावभीक्ष्णमथ गन्ताऽखिलोपनिषदन्तावनौ विपुलदन्तावलप्रचुरदन्तान्वितान् समभिगन्ता रिपून्समभिहन्ता चिराद्विपुलमञ्चोत्तमादुदितचञ्चोपमं निखिलपञ्चोत्तमप्रकरसञ्चोष्यमाण (परि). सञ्चोरितप्रगुणपण्डाधरौघहृदखण्डावनीवलयचण्डासुरप्रकरदण्डावहोरुभुजदण्डाहित त्रिदशखण्डाभयः परवितण्डाहर:सुभगगण्डालुलद्वदनमण्डालकःप्रगुणगोपालकःपशुपसबालकः सुरवधूचालकः खलचमूकालकः स्वजनदृगलालकः खरवधोत्तालकः परमरम्यालक: परिलसन्नालकस्थमणिभाजालकः सकलशोभालकः स्फुटयशोभालक: सुखितदिक्पालकः परिहृतज्वालकः स्वजनसम्भालकः । ___ जयति तस्याखिलव्रततपस्यासुरोघवरिवस्या शिवाशिवनमस्याफलं व्रजजनस्यातिमञ्जुहृदयस्याधिदैवमिव धीरामिलज्जलगभीराभिराम दिनहीरात्मजावितततीरावनिस्थयुवतीरासमण्डलगनीराजमाननखहीरामलच्छविमती, राजमानदलिताम्भोजभाननवबन्धूकमानहरसेवाविधानकलितानन्ददानपरमश्रीनिदाननवसम्प - निधानचरणासज्ज्यमानतनुशाटीपिधानगतरम्भासमानलसदूरुप्रभाऽनवरतोत्साहदासुरसनाभिह्रदा त्रिवलिसङ्गा विराजिविलसद्रोमराजिरणुमात्रोदरी सुरतवाञ्छा(क)हरी मृगमदक्षोदलिप्ततरवक्षोजकान्तिहृदयक्षोभदा मदनरक्षोपमाननविलक्षोदजाविशदपक्षोदचारि विहगक्षोभकृद्गतिसुलक्षोपमाजितमदक्षोरितद्विपविपक्षोदया पतिदिदृक्षोदयन्निजविवक्षोढगाढभुजकक्षोर आहितसदक्षोभ्यकञ्चुकसमक्षोप्तमजुमणिलक्षोच्चलत्किरणकक्षोदयास्तशितिपक्षोद्गमा लसदसामान्यरूपभरधामातिशोभितनुधामाऽमला विजितकामा बलाशतमहामाधुरीभरनिकापाद्भुता प्रणयिकामावहस्मितसुधामादिनी निखिलरामावलीसकलयामादनप्रगुणनामाञ्चिता विहितदामाच्छभाभ्रमितसामादिकश्रुतिगिरामापिता किमपिगामाप्य भक्तजनतामानदाप्रणयकामातुरप्रसितरामानुजप्रहितसामार्थसङ्गतसुदामाभिधानसखितामाद्युदन्तकथना - माननीतदिनयामाकुला क्वचन या माधवोक्तपररामाभ्रमप्रभवतामाभिधा श्रुतिमहामानिनी विधिकृतामातमोभरविरामायतद्युतिललामाद्भुताखिलकलामालिनी तरणिभासा भवन्नवविकासाभितःस्फुरितकासारपुष्पसुषमासारहारिमुखहासान्विता कलितरासावली ललितलासा मनोहरविलासातिशोभिनिजवासाऽजिराऽमितसुवासावहावयवभासादितोरुमधुमासार्हस सृणवासा हरेरियमसाधारणस्मरजबाधाहराऽखिलसमाधानकृद् व्रजजनाधारभूतसदगाधातिमञ्जुलगुणाधारिणी नयननाधाऽननातिसुखसाधाऽऽयुधाब्धिरिव राधाभिधा। जयति सातद्वयीविहृतिरातन्वती विविधसातवजं तरणिजाऽतय॑तीरसुष

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120