Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 107
________________ ६८ ] वृत्तमुक्तावल्याम् विद्वेषिसङ्घप्रभूतप्रचण्डप्रतापप्रकाशप्रकृष्टप्रसर्पत्प्रभावप्रसारप्रभापूरितक्ष्मातलक्षेम - दाक्षुण्णकौक्षेयकाऽक्षामलक्ष्मीक-सक्षेमसोन्मादमातङ्गविश्राणनोद्दामदीव्यद्गुणग्राम • भूदेवविश्रामभूयस्तरायामधर्मद्रुमाराम हे राम कामाभिरामधुते । जय कविजनगीत सम्वित्तुलातीत नित्यप्रभोदीत शीतद्युतिस्फीत सत्कीतिसम्वीत साङ्गस्वराधीत विप्राननोनीतमाङ्गल्यवाग्गीत, खड्गस्फुटाघातसद्यःसमुत्खातसर्वद्विषबातभूमीतलापातलावण्यसङ्घातदोविक्रमत्रातसद्धर्मविख्यातकिञ्चिन्नवप्रातरुद्यत्पयोजातरोचिष्ण्वभिख्यातपादद्वयापातनम्रद्विषत्सात दानस्फुटौदार्यसद्विप्रसत्कार्यसद्वृत्तनिर्धार्यवीर्यश्रियाऽवार्यसौन्दर्यसत्पात्रभूयोलसद्गात्रनित्यद्युते । जय गुणमयकाय सर्वाधिकोच्छाय दीव्यत्सदध्याय विप्रावलीदाय जाताहिताऽपायशातावलीसाय, विस्फूजितामन्दसौरभ्यमाकन्द लक्ष्मीलताकन्द पूर्णान्तरानन्द दत्तारिहाक्रन्द, विद्वत्सभोल्लास भूयोरसावास बाणासनोज्जास खड्गाद्भवत्त्रासवश्यद्विषद्दास भास्वद्यशोहास बाणासनोत्प्रास विक्रान्तिसोद्भास देव तत्र त्वया कीर्तिरस्थापि यत्रोल्लसन्तः सुधापूरपूर्णाः स्फुरन्त्युच्चकैस्तुङ्गगङ्गातरङ्गास्तथा राजहंसावली राजते यत्र कीर्तिस्तथा स्व:पतेर्धाजते । जय कविजनभाल भूरिस्फुरद्भाग्य भूम्ये कसौभाग्य सम्पत्तिसम्भारधौरेयतोद्दण्डदोर्दण्ड शुण्डासमुच्चण्डभृङ्गावलीगण्ड(शोभेक)वेतण्डविश्राणनाखण्डभूमण्डलाखण्डलोग्रप्रभाजाग्रदत्युग्रहस्तान किं भूयसा विस्तरेण त्वया देव कीर्तिश्रिया विश्वमेतत्समस्तं कृतं निस्तमस्क तथा कोटिनिर्लाञ्छनेन्दुच्छवीनां घटाभिर्नसम्भाव्यते तादृशीरतस्त्वं समस्तावनीपालमूर्दाग्रमाणिक्य हे राघवेन्द्र प्रभो जीव जीयाश्चिरं देव जीयाश्चिरम् ।। २८५॥ यथा वा श्रीकृष्णचन्द्रमहामहिषी-श्रीयमुनास्तुतिः____ जय जय जय देवि ज़म्भारिमुख्यामरग्रामजञ्जप्यमानस्वरूपे लसज्जह्न - कन्यादिकल्लोलिनीवृन्दजाग्रज्जयोत्कर्षजन्यातिहर्षे समुत्फुल्लकुञ्जावलीवृक्षपुजाटवीमञ्जुगुजारवोन्मत्तभृङ्गीगणाभङ्गसङ्गीतभङ्गीप्रसङ्गप्रसीदत्प्रतीरप्रदेशस्थयक्षे महापातकध्वंसनाबद्ध कक्षे जगज्जीवकल्याणदानकदक्षे सदारक्षिताशेषभक्त कपक्षे कलिन्दाचलाखण्डगण्डोपलक्षेऽपसंक्षुब्धपाथोघटात्युद्भटेऽन्योन्यसङ्गोच्चलत्तुङ्गभङ्गच्छटे निम्नभूमोनमत्पूरपूर्णाऽवटे ध्यानजापादिभिर्नष्टसत्संकटे तिग्मतापत्रयीपापभेदोत्कटे हेमहीरावलीबद्धदीव्यत्तटे पूरगस्वर्वधूरोजराजद्घटे लोलवीचीभुजासिक्तरोधोऽवटे कञ्जकिजल्क रुक्पोतचञ्चत्पटे नित्यशृङ्गारितारण्यशैलाज्जटे कृष्णकान्ते महानीलरत्नद्युते । ____घनघनवनवृक्षवल्लीशताच्छन्नतीरस्थनीरे सदाधौतगोपालकेलीकुटीरे कलिग्रीष्मसन्तापसंहारवीरे हरिप्रेमसन्तानदानकधीरे महारूपलावण्यलक्ष्मीगभीरे लसत्कूलकूजत्पिकीकेकिकीरे तरङ्गावलीसङ्गमुह्यत्समीरे चलच्चारुवीचीविलोलत्कुलीरे तटश्रेणिकाबद्ध [माणिक्य ) हीरे लसत्कूलसंरूढमन्दारवृक्षप्रसूनौघ

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120