Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 108
________________ तृतीयो गुम्फः . [ ६६ निष्यन्दिमाध्वीकधारामिलत्सौरभोत्कर्षपाथःप्रवाहे लतामण्डपश्रीसमालोकनिःस्पन्दसानन्दवन्दारुवृन्दारकीवृन्दकेलीकलाशालिकूलावनीशोभिवृन्दाटवीमध्यफुल्लत्कदम्बप्रसूनोत्थपारागचूर्णौघसंछन्नवेगोच्चलच्चारुपुण्योदके हेमहीरावलीबद्ध गारुत्मतग्रावरश्मिच्छटासङ्घसन्दिग्धपूरे भवक्लेशपाथोधिसन्तारशूरे स्वजन्मोररीकारसन्तुष्टसूरेऽव नित्याद्भुते । __ अतुलवनवनिन्यमाधुर्यधुर्यस्फुरत्कृष्णकौमारपोगण्डकैशोरकेलीचमत्कारियूथीजपामालिकामालतीमल्लिकामाधुरीकेतकीकणिकारादिवल्लीतरुच्छन्नतीराङ्गणे सान्द्रवंशीवटच्छायरुद्धातपस्पर्शशैत्यावहोद्वेल्लदम्भस्तरङ्गे व्रजाधीशलीलावनोपात्तरङ्गे सदाविस्फुरद्गोपिकावृन्दसङ्गे तटारण्यविश्रान्तनानाविहङ्गे कलिङ्करधिक्कारबद्धा. भिषङ्ग महारासकर्तु विलासान्तरङ्गे भवत्सिद्धयोगीन्द्रवृन्दप्रसङ्गे निजासङ्गचित्रीकृतस्वच्छगङ्गे सदासम्भवत्पातकव्यूहभङ्गे मरुल्लोलवीचीचमत्कारचङ्गे गभीराम्बुमज्जत्तमस्वर्मतङ्गे लसत्कूलभूलोलखेलत्कुरङ्गे निजाम्भ:पृषन्तिव्रजस्पृष्टतीरस्थवामेक्षणाबाहुवल्लीद्वयीकङ्कणीभूतभूयोरदैकैकभित्तेभसम्पादितस्वर्गवासप्रमोदेऽनु - कम्पायते । अगणितगुणगुम्फिते लोकमातः प्रवाहान्तरामज्जदब्जेक्षणामुग्धधम्मिल्लभारानुबद्धस्फुरच्चामरौघाम्बुसंस्पर्शकालोद्धृताऽशेषतत्सौरभेयीकुले पुण्यपाथोवगाहप्रसङ्गागतानेककर्णाटदेशाङ्गनाकर्णसौवर्णभूषामिलन्मञ्जमुक्तावलोवारिसङ्ग - क्षणप्रोद्धृतप्रोल्लसत्ताम्रपर्णीसमुद्रौघसङ्गस्थलीलालुलच्छुक्तिजन्तुव्रजे दीव्यदिभ्याङ्गनाश्रोणिसम्बेष्टिताऽतुच्छपट्टाम्बरक्षालनकक्षणस्वर्गसम्प्रेषिताशेषतत्कोषकीटे सदावेदवेदान्तविख्यातभास्वद्यशोधोरणीचन्द्रिकावृन्दसम्प्रेषितप्राज्ञचेतश्चकोरे तटद्वन्द्वसंस्थापितस्तम्भसम्बद्धदोलाविलासप्रिये पीतवासःप्रिये शारदाशम्भुशेषादिजेगीयमानप्रसर्पद्गुणग्रामसम्भूषिते कृष्णवंशीरवाऽऽकर्णनोद्भूतहर्षाकुले मत्तमातङ्गधीरेऽम्ब ! भास्वत्सुते सुस्तुते सुस्तुते सुष्ठु तेऽस्मन्नमः सुष्ठु तेऽस्मन्नमः ।। २८५ ॥ ___ प्रादो लघुपञ्चकं ततश्चण्डवृष्टिवदेव रगणानां विन्यासः कार्यः । सोऽयं चण्डकीलो नाम दण्डकः । यथा-कमलमुखगोपिकामण्डलीवल्लरीकाननप्रस्फुरन्नीलमेघाकृते रुचिररुचिमज्जताशेषदृग्विधुदुद्द्योतजिच्चारुचीरावृते । धरणिधरधुर्यधारिन् धराभारहारिन् प्रभो भव्यकारिन् भवप्रोद्धृते जय दितिजलोकसंहारक ! श्रीपते माधुरीधोरणीधामलीलाकृते॥२८६॥ अथ नगणद्वयानन्तरं सप्तभिर्यगणैः प्रचितकाभिधो दण्डकः । स यथा-जय जय जय समन्तादुदञ्चद्दिगन्ताचितध्वान्तहारिप्रकाशैकराशे * प्रतिदिनमुषसि भूयो भवद्भरिशक्त सरोजावलीवक्त्रमुद्राविनाशे ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120