SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७० ] प्रसृमररुचि विसर्पत्सहस्रातिसख्यांशुमालिन् महाकाशमध्यावकाशे ग्रहपरिवृढ विवस्वन् सदा मे शुभं देहि भानो समुद्यत्कृपावारिराशे ॥ २८७॥ अथ नगणद्वयानन्तरं मगणं निधाय यथेच्छं यगणाश्चेद्विधीयन्ते तदैवंविधचतुरचरणनिबद्धो मेघमालाख्यो दण्डकः । वृत्तमुक्तावल्याम् यथा नवजलधरजालश्रीरसौ नन्दबालः सदाऽऽलापशाली किशोराकृतिः सुन्दरेन्दीवराक्षः विषमविरहबाधाहृत् समुद्भूतराधारता सक्तयगाधातिकेलीकलाधारिचुञ्चुकटाक्षः । नवमधुरिमभाजा श्रीलगोपीसमाजामितानन्दकन्देन नन्देक्षणामन्दवात्सल्य देन स्मरतजयिभासा स धृतो येन गोवर्द्धनाद्रिः कराग्रे गवां पालकः पातु लम्बालकस्त्वाम् ॥ अथ नगणद्वयानन्तरं यथेच्छं यगणाश्चेद्विधीयन्ते तदैवंविधचतुश्चरणनिबद्ध'रचण्डवेगाभिधानो दण्डकः । यथा जय जय जय विवस्वत्कुलालङ्क्रिया नीलरत्नप्रभानिर्जितप्रावृषेण्याभ्रकान्ते पदनखरुचिचमत्कारिचन्द्रावली चन्द्रिकौघप्रमृष्टस्वकीयान्तरध्वान्ततान्ते । अभिरणमहि समस्त त्रिलोकीमनः कण्टकोद्यद्दशग्रीवसम्पात सञ्जातशान्ते परमपुरुष सदासच्चिदानन्द पूर्णावतार प्रभो राम पायात्तमां नाम माऽन्ते ।। २८८ ॥ अस्यैवादौ लघुपञ्चकं चेद्विधीयते तदा सिंहविक्रान्तनामा दण्डकः । यथा जय जयसि विवस्वत्कुलालङ्क्रियानीलरत्नप्रभानिर्जितप्रावृषेण्याभ्र कान्ते चरणनखचमत्कारिचन्द्रावलीचन्द्रिकौघप्रचारोद्धतस्वान्तगध्वान्ततान्ते । अधिधरणि समस्त त्रिलोकीमनः कण्टकोद्यद्दशग्रीवसम्पातसञ्जातशान्ते परमपुरुष सदासच्चिदानन्द पूर्णावतार प्रभो राम पायात्तमां नाम माऽन्ते ।। २८६ ॥ अथ लघुर्गुरु घुर्गुरुरित्येवं क्रमेण प्रतिचरणं वर्णाश्चेन्निधीयन्ते तदाऽनङ्गशेखरो नाम दण्डकः ।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy