Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 83
________________ ४४ ] वृत्तमुक्तावल्याम् अथ सारवतीवृत्तम् भत्रयमानय भव्ययुतं वक्त्रलसद्गुरुवर्णरुतम् । सारवती किल वृत्तमिदं रञ्जयते सततं सुविदम् ॥ १११ ।। यथा-केन शिवाय समर्प्य शिरः संपणितासि परैव गिरः । सुन्दरि यत्र रता पुरुषे कायमशेषमलंकुरुषे ॥ ११२ ॥ यथा वा कस्य हरिष्यसि तापकरं सुन्दरि भूरिवियोगभरम् । यस्य कृते पुलकौघधरं मण्डयसोह शरीरवरम् ।। ११३ ।। अथ सुषमाच्छन्द : वक्रद्वितयं भूयः सगणस्तद्वत्पठनीयं सुज्ञ पुनः । वृत्तं सुषमानामाकलितं ज्ञयं विबुधैरुच्चैललितम् ॥ ११४ ।। यथा-शोभासदनं जाग्रन्मदनं लोके तरुणीचेत:कदनम् । मुक्तावदनन्तद्युतिरदनं भोते तव तत्कान्तं वदनम् ॥ ११५ ।। अथ हंसी मन्दाक्रान्ता कविवरहिता प्रान्ते सप्ताक्षरविरहिता । सा विज्ञ या विमलमतिभिर्नाम्ना हंसी विबुधततिभिः ।। ११६ ।। यथा-कुञ्ज कुजे कृतविलसनं विद्युन्मालाललितवसनम् । चन्द्रज्योत्स्नाविशदहसनं वन्दे कृष्णं व्रजनिवसनम् ।। ११७ ।। प्रथामृतगति : सलघुचतुष्टयभगणं रचयत रामनुसगणम् । इति सुविनिर्मित चरणाममृतगति विद सुकवे ।। ११८ ॥ [ह्यमृतगति तसुगणा] यथा-विलसितजीवितमदना विधुशतनिर्जयिवदना। मुनिमनसामपि कदना तनुरुचिशोभितसदना ॥ ११६ ।। अयि वृषभानुजलतिके तरलतडिद्गुणततिके ! मयि भवती शुभमतिके ! गतिरिह नित्यमगतिके ॥ १२० ॥

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120