Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
५४ ]
वृत्तमुक्तावल्याम् मालिनी
नगणयुगलमादौ वक्रयुग्मं रयुग्मं तदनु कलय वक्र तोषयन्भूमिशक्रम् । प्रतिचरणनियम्यं वृत्तमेतत्सुरम्यं गुणिगणमुखगेयं मालिनीनाम
धेयम् ।। २०८ ॥ यथा-यदसिविलसितौघेरासुरं सर्गमस्तं
गतमवनितलान्तर्वीक्ष्य सेन्द्राः सुरौघाः ।। प्रसभमवतरीतुं व्योमत: कामयन्ते
___स जयति जयसिंहो मानवंशप्रदीपः ॥ २०६।। शरभच्छन्द:
भुवनगणितलघुमधुरिमकलितं चरमविधृतगुरुसमधिकललितम् । तदिह शरभ इति सुविदितरचनं जयति सततसुखसमुदयसचनम्
॥२१०॥ यथा-सूसमरवसदसि विदलितधिषणं सुसमरवसदसिविदलितधिषणम् ।
अधिनवमहमिह वरभवकन्तं अधिनवमहमिह वरभवकन्तम् ।।२११॥ अथ नराचच्छन्दःलघुर्गुरुर्यदि क्रमेण धीयतेऽष्टवारकं
" तदेह वृत्तमुत्तमं विभाति चित्तहारकम् । नराच इत्यमन्दनामसङ्गतं विराजितं
फणीन्द्रवक्त्रभाषितं कवीन्द्रहृत्सभाजितम् ।। २१२ ॥ यथा-करीन्द्रकुम्भसम्पदामशेषभावतस्करी
प्रभूतशातकुम्भकुम्भसम्भ्रमैकसुन्दरौ। उदारहारभारभातरङ्गिणीविहङ्गमौ
विराजतः समौ तव स्तनौ सदैकसङ्गमौ ।। २१३ ।। यथा वाललाटवेदिकान्तिकस्थिताक्षिकुण्ड विस्फुरत्
प्रचण्डपावकावलीहुतासुरप्रपञ्चकम् । समस्तलोकमङ्गलप्रसङ्गदिव्यदीक्षितं
त्रयीनिरूढलक्षणं तमेव देवमाश्रये ॥ २१४ ।। अथ नीलच्छन्दःअत्र भपञ्चकमन्तविराजितवक्रयुतं
षोडशवर्णसभाजितसुन्दरशब्दरुतम् । तत्कविनायकमोदविधायकमजुतरं
नीलमिति स्फुटनामसुवृत्तमवेहि पदम् ॥ २१५ ।।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120