Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 95
________________ २६ ] वृत्तमुक्तावल्याम् विभाति यतिरष्टभिर्नवभिरक्षरैर्मोददा विमोहितसभासदा समुदयेल्लसद्वृत्त के ॥ २२२ ॥ क्वचित्कनकमालिका क्वचन किङ्किणीजालिका क्वचिद्रुचिरमम्बरं क्वचन भालरत्नं वरम् । क्वचिच्च चिकुरोत्करः क्वचन भाति मुक्तासरः प्रमथ्य सुरताम्बुधिं कृतवती त्वमेवं विधिम् ।। २२३ ॥ यथा वा ननु व्यरचि सा वधूरिह सुमेधसा वेधसा वशीकरणवस्तुभिस्तुहिनशीकरक्षालितैः । विलोचनसुखावहावयवशालिनी यन्मनो जहार हृदि सङ्गता सकलमङ्गतापं च मे ॥ २२४ ।। अथ मालाधरच्छन्द: इह रुचिरवृत्तके हृतसभासदश्चित्तके त्रिलघुमय आदिमो यदि गणो विनिर्मीयते । भणत विबुधास्तदा सरसवर्णमुक्ताफलम् सुखदमतिसुन्दरं सततमत्र मालाधरम् ॥ २२५ ॥ यथा-विरहिहृदि यायिनः स्मरसुकीर्तिसङ्गायिन: कमलमधुपायिनः सविषबाणसञ्चायिनः । सुरभिरथसङ्गिनः सुमणिकिङ्किणीरङ्गिण: किमपि ददतेऽलयः कुतुक मुल्लसत्केलयः ।। २२६॥ अथ शिखरिणी पुर: शुद्धं वक्रं कुरु गुरुलघूनां सुरुचिरम् चतुष्क प्रत्येकं यगणनगणावन्तगुरुकौ । क्रमादेवं न्यासाऽतिशयसविलासाक्षरपदा रसै रुदैर्युक्ता रचितयतिरुक्ता शिखरिणी ॥ २२७ ॥ यथा-जराजन्मागारं मरणभयभारं विदधतम् रुजां पारावारं विगतसुखसारं च विरसम् । अये वारं वारं कुमतिजनतारञ्जनकरम् धिगेनं संसारं व्रजपतिकुमारं स्मर मनः ।। २२८ ॥

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120