Book Title: Vruttamuktavali
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
६४ ]
वृत्तमुक्तावल्याम् यथा-संसारसरणकरविकलसकलनरनिकरपरमशरण (द) चरणे
गोवर्द्धनगिरिवरधरणविदिततरसुरपतिमदभरपरिहरणे । वंशीरवसुमुदितगणशतसमुदितपशुपयुवतिविलसितकरणे चेतो मम विरचितशममिह निवसतु भगवति भवजलनिधितरणे
॥ २७१ ।। अथ विशालोपविशालच्छन्दोलक्षणे
यत्र चरणे यथोचिताऽनियतगुरुलघुशालिनि पूर्व षोडशवर्णैर्यतिस्ततः पञ्चदशवर्णैस्तद्विशालाख्यं छन्दः । पूर्वं पञ्चदशादौ विरामस्तत: षोडशादी, तत् खजविशालं भवति । यत्र पुनः षोडशवर्णैस्तदुत्तरमपि षोडशवर्णं रेव विरामस्तत् उपविशालं नामच्छन्दः । इदमपि पूर्ववद्यतिभेदे खोपविशालाख्यं वृत्तं भवति । परं त्विह द्वात्रिंशद्वर्णघटिते उपान्त्यो वर्णः सर्वदा गुरुरेव प्रयोक्तव्योऽन्त्यश्च लघुरेवेत्येक: पक्षः । उभावन्त्योपान्त्यौ लघू एव भवतः, परः पक्षः । उदाहरणम्
शारदनभःस्थलीव निर्मलनिरभ्रगणा, राजमानरुच्यरुचितारावृन्दधारिणी चारुपुरुहूतमणिबद्धसरणी (व), बहुरत्नरमणीयरूपकौतूहलकारिणी। दीपमालिकाया निशि भाति भूरि दीपभृता, कालिन्दी करालकलिकल्मषविदारिणी वसुमती केशवविलासवती तनुधृता, नीलशाटिकेव हेमबिन्दुजालधारिणी ।। २७२ ।। वृन्दारण्यचारिणी कदम्बपुष्पभारिणी, मिलिन्दवृन्दहारिणी सुगन्धिपूरगामिनी भक्तलोकपालिनी दयालुतानिभालिनी, रमेशसङ्गलालिनी महाघशैलदामिनी। पारिजातपुष्पतारकौघमण्डिता रमेशचन्द्रसङ्गिनीव कापि नील [नील]यामिनी भूरिभङ्गरङ्गिणी तरङ्गिणीषु निस्तुला, करोतु मे शुभानि सा कलिन्दजेतिनामिनी ॥ २७३ ।।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120